2023-11-26 05:53:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७२७
 
बुद्धौ वर्तमानत्वात् तथा प्रयोगः इति भावः । तृतीयो नित्यप्रवृत्तः यथा

पर्वतास्तिष्ठन्तीत्यादौ । अत्र पर्वतानां स्थितिर्नित्यप्रवृत्ता इति तथा

प्रयोगः । एवम् पर्वतानां स्थितत्वेन वर्तमानत्वेपि भूतभविष्यत्कालाभ्यां

संबन्धविवक्षया पर्वतास्तस्थुः स्थास्यन्ति इत्यपि प्रयोगः स्यात् इत्यवधेयम्

( वाच० ) । सामीप्यरूपः चतुर्थो द्विविधः भूतसामीप्यः भविष्यत्सामीप्य-

श्चेति । तत्राद्यो भूतसामीप्यः यथा एषोहमागच्छामीत्यादौ । अत्र कदा

आगतोसि इति प्रश्ने आगतोपि अध्वस्वेदादेर्वर्तमानत्वात् एषोहमाग-

च्छामि इति वदति इति ज्ञेयम् । द्वितीयो भविष्यत्सामीप्यः यथा एषोहं

गच्छामीत्यादौ । अत्र कदा गमिष्यसि इति प्रश्न गमने क्रियमाणोद्यमोपि

एषोहं गच्छामि इति वदति इति विज्ञेयम् ( दुर्गादासः ) ( वाच० ) ।

जगदीशोप्याह । लडर्थवर्तमान सामीप्यमपि द्विविधम् वर्तमानक्षणोत्तर-

कालावच्छेद्यत्वम् वर्तमानक्षणाव्यवहितप्राक्कालावच्छेद्यत्वं चेति । तेन

चैत्रः कदा गमिष्यति इति जिज्ञासायां एष गच्छति इत्युत्तरस्य वर्तमान-

क्षणोत्तरकालावच्छेद्यगतिमांश्चैत्रः इत्यर्थः । चैत्रः कदा समागतः इति

जिज्ञासायां एष आगच्छति इत्युत्तरस्य तु वर्तमानक्षणाव्यवहितप्रा काला-

वच्छेद्यागमनवान् इत्यर्थः इति न प्रश्नोत्तरभावासङ्गतिः इति (श० प्र०

श्लो
० ९७ टी० पृ० १४३ ) । अत्र प्राञ्चो वैयाकरणा आहुः । वर्त-

मानत्वं च प्रारब्धापरिसमाप्तत्वम् भूतभविष्यद्भिन्नत्वं वा । यथा पचती-

त्यादौ अधिश्रयणाद्यधःश्रयणान्ते मध्ये पूर्वापरीभूतक्रियासमुदाये वर्तमान-

स्वमस्ति इति भवति प्रयोगः (बै० सा० ल० १२० )

( ल० म० ) इति । २ शब्दप्रयोगाधिकरणकालवृत्तिः । यथा वर्तमान-

ध्वंस प्रतियोगित्वमतीतत्वम् इत्यादौ (नील० १ कालनि० पृ० १० ) ।

वशा-धेनुः ( पुरु० पृ० ६ ) ।
 
पृ०
 

 
<
वषट्- >
(अव्ययम् ) १ स्वाहाशब्दवदस्यार्थीनुसंधेयः । यथा वषडिन्द्रा-

येत्यादौ ( श० प्र० श्लो० ९३ पृ० १२६ ) । २ वषट् इति करणे ।

यथा वषट्कारं गृणन् द्विजः (भाग० स्क० ९) इत्यादौ । एवम्

वषट्कार वौषट् इति शब्दो व्याख्येयौ ।