2023-11-26 05:52:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७२६
 
न्यायकोश: ।
 
संदिग्धसाध्यकत्वात्सपक्षवृत्तित्वानिश्चयादसाधारणो हेतुः । हेतुः संदिग्ध-

साध्यकवृत्तिर्यदि न दृष्टान्ते तदा गमकहेत्वभावात्साधन विकलो दृष्टान्तः

स्यात् ( गौ० वृ० ५/११४ ) इति । सपक्षवर्तिनो हेतोर्यादृग्रूपं विव-

क्षितम् । पक्षोपि तादृग्घेतुः स्यादन्यथासिद्धिहेतुता ॥ सपक्षत्वात्तदा साध्य

इति वर्ण्यसमा क्षतिः ( ता० र० २ श्लो० १०६-१०७) इति ।

ग] वर्ण्यस्य स्थापनीयस्य दृष्टान्तधर्मस्य पक्षे साधनम् । यथा आत्मा

सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवदित्यादौ क्रियाजनकनोदनाख्यसंयोग-

"वत्त्वाल्लोष्टादेर्भवतु क्रियावत्त्वम् । आत्मनस्तु क्रियावत्वे तज्जनकनोद-

नाख्यसंयोगवत्त्वमपि स्यादिति (नील० पृ० ४३ ) ।
 
कालो
 

 
<
वर्तमानः>
१ ( काल: ) [ क ] येन हि वस्तुना यः कालोवच्छिद्यते

स तस्य वर्तमानः (वै० उ० २१२१८) । यथा इदानीं घटोस्ति

। इत्यादौ घटावच्छेदकः धात्वर्थसत्तावच्छेदको वा इदं शब्दवाच्यः

वर्तमानः । अत्र तव्यक्तिध्वंसप्रागभावानवच्छिन्नः कालस्तद्व्यक्तेर्वर्तमान-

स्थितिः । तच्च प्राक्संबन्धस्वभावरहित स्वरूपत्वम् स्वकार्यप्रग

कालः इति ज्ञेयम् ( त० कौ० कालनि० पृ० ३) । वर्तमानत्वं च

वा । [ख] प्राञ्चस्तु वर्तमानध्वंसप्रागभावाप्रतियोग्यवच्छिन्नः क
 
देयम्
 

इत्याहुः । कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति विशेषणं न

(प० मा० कालनि० पृ० ९२ ) इति । ध्वंसे वर्तमानत्वं तु तत्त-

च्छब्दप्रयोगाधिकरणकालवृत्तित्वमेव इति निर्वाच्यम् । अतो नात्माश्रयः

इति बोध्यम् (नील० १ कालनि० पृ० १० ) । [ग] नव्यास्तु

(ग० व्यु० उ० पृ० १३४ ) (वाक्य● काल० नि० ) (३० मा

तत्तच्छब्दप्रयोगाधिकरणकालः । यथा पचतीत्यत्र लडर्थः इत्याहुः

द० पृ० १२० ) । लडर्थवर्तमानकालश्चतुर्विधः प्रवृत्तोपरतश्चैव वृत्ता

विरत एव च । नित्यप्रवृत्तः सामीप्यो वर्तमानश्चतुर्विधः ॥ इति । तत्राद्यः

प्रवृत्तोपरतः यथा मांस न खादतीत्यादौ । अत्र आदौ प्रवृत्तं मांस-

भोजनं निवर्तयति इत्यर्थः (वाच० ) । द्वितीयो वृत्ताविरतः यथा ह

कुमाराः क्रीडन्तीत्यादौ । अत्र तदानींतनक्रीडनाभावेपि पूर्व क्रीडान