2023-10-18 08:06:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
C
 
<अनुपकारसमः>
( जाति: ) कार्यकारणभावस्योपकारनियतत्वेनवस्था ।

असिद्धदेशनाभासोयम् ( गौ० ० ५ । १ । ३७ ) । इयं जाति: सूत्रानुक्ता
(

वृत्तिकारेण वृत्तावुच्यते कार्यसम इत्यनेनोपलक्ष्यते चेति बोध्यम् ।

 
<
अनुपधा>
श्रद्धामनःप्रसादादयः । एते धर्मजनका: ( त० व० १३२ ) ।

 
<
अनुपपत्तिः - >
उपपत्यभावः । यथा पीनत्वान्यथानुपपत्तिरित्यादौ ।

 
<
अनुपलब्धिः
 
-
>
ज्ञान करणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं

प्रमाणम् । अस्यार्थ:- ज्ञानरूपं यत्करणं तदजन्यो योभावानुभवो नामा-

• भावज्ञानं तस्य यदसाधारणं कारणं तदनुपलब्धिरूपं प्रमाणं बोध्य-

मिति । अनुमानादिना जन्योत एवातीन्द्रियो योभावानुभवस्तस्य हेतुभूते-

नुमानादावतिव्याप्तिवारणायाजन्यान्तम् । अदृष्टादौ साधारणकारणेतिव्या-

तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतौ संस्कारेतिव्याप्तिवार-

णायानुभवेति विशेषणम् । एवं च घटादिज्ञानाभावो घटाद्यभावज्ञाने

कारणमिति फलितोर्थः । तथा च घटाभाववति भूतले घटज्ञानाभावाद्ध-

टाभावस्य ज्ञानं भवति । आत्मनि धर्माधर्माद्यनुपलब्धिसत्वेपि तदभावा-

निश्चयेन योग्यानुपलव्धेरेवाभावग्राहकत्वं बोध्यम् । अनुपलब्धेर्योग्यता

च तर्कितप्रतियोगिसत्त्वप्रसञ्चितप्रतियोगिकत्वरूपा । अस्यार्थ:-
तर्कितं

यत्प्रतियोगिसत्त्वं तेन प्रसञ्जित आपादितः प्रतियोगी यस्य तस्य भावस्त-

त्वमिति । तथा च स्फीतालोकवति भूतले यदि घटः स्यात्तदा घटोप-

लम्भ: स्यादित्यापादनसंभवात्तादृशभूतले घटाभावोनुपलब्धिगम्यः ।

अन्धकारे तु तादृशापादनासंभवान्नानुपलब्धिगम्यता । अत एव स्तम्भे

तादात्म्येन पिशाचसत्त्वे स्तम्भवत्प्रत्यक्षतापत्त्या तदभावोनुपलब्धिगम्यः

स्तम्भः पिशाचो नेति । आत्मनि धर्माधर्मादिसत्त्वेपि तस्यातीन्द्रियतया

निरुक्तोपलम्भापादनासंभवान्न धर्माद्यभावस्यानुपलब्धिगम्यत्वम् । ननूक्तं-

रीत्याधिकरण इन्द्रियसंनिकर्षस्थले अभावस्यानुपलब्धिगम्यत्वं तवानुम-

तम् । तत्र च कृप्तेन्द्रियमेवाभावाकारवृत्तावपि कारणम् । इन्द्रियान्वय-

व्यतिरेकानुरोधादिति चेत् न । प्रतियोग्यनुपलब्धेरभावग्रहे हेतुत्वेन

कृतत्वात्करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं संनिक-
२४