This page has not been fully proofread.

७१८
 
न्यायकोशः ।
 
( श० प्र० श्लो० १०६ पृ० १६४ ) । अत्र सूत्रम् अनद्यतने लुट्
(पा० सू० ३।३।१५) इति । तदर्थस्तु अनद्यतने भाविनि लुट्
(बै० सा० ल० पृ० १२७ ) इति । अत्र अनद्यतन इति बहु-
व्रीहिः । ते न व्यामिश्रे न भवति अद्य श्वो वा भविष्यति इति
(काशिका० ) ।
 
ऌङ् – (तिङ् ) या तिङ् क्रियायाः (धात्वर्थस्य ) अतिपाते ( विगमे)
अतीतकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् ऌङुच्यते । यथा एध-
श्वेत् प्राप्स्यत् ओदनमप्यपक्ष्यत् इत्यादौ ऌङ् । अत्र स्यतिप्रभृतयश्चैत्रा-
देरतीत कालावच्छेद्यमिन्धनप्रात्यभाववत्त्वमनुभावयन्ति । तथा च अतीत-
चैत्रा
 
काल इव क्रियाप्रतियोगिकोभावोपि लुङोर्थः । वस्तुतः अतीतकाला-
वच्छेदेनेन्धनप्रात्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लङा
दावनुभाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियातिपात-
शब्दार्थत्वात् ( श० प्र० श्लो० १०६ टी० पृ० १६४ ) / ऌङर्थस्तु
व्याप्यक्रियया व्यापकक्रियाया आपादनम् (तको० ४ पृ० ११)/
यथा भूतले घटश्चेदभविष्यद्भूतलमिवाद्रक्ष्यत् इत्यादौ ऌडर्थः । अत्रो-
दाहरणान्तरं यथा परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् /
• अस्मिन्द्रये रूपविधानयत्नः पत्युः प्रजानां वितथोभविष्यत् ॥ ( रघु०
स० ७ श्लो० १४ ) इति । शाब्दिकमते क्रियाया अनिष्पत्तौ गम्य-
मानायां भूते भाविनि वा हेतुहेतुमद्भावे सति ऌङ् । अत्र जगदीश
क्वचित् भूतत्वम् कचित्त भविष्यत्वं लुङर्थः इति ( तर्का० ४ पृ० ११)
( सि० च० ४ पृ० ३२) । अत्र सूत्रम् लिङिमित्त ऌङ् कियातिपत्तौ
(पा० सू० ३ । ३ । १९३९) इति । तदर्थस्तु लिङो निमित्तं हेतुहेतु
द्भावादि (वै० सा० ल० पृ० १४८) । भविष्यतीत्यनुवर्तते ।
हेतुहेतुमतोर्लिंङ् इत्येवमादिकं लिङो निमित्तम् । तत्र लिनिमित्ते भवि
ष्यति काले ऌङ प्रत्ययो भवति क्रियातिपत्तौ सत्याम् (काशिका ० ) इति ।
तत्र भाविनि हेतुहेतुमद्भावे ऌङ् यथा सुवृष्टिश्चेदभविष्यत् तदा सुि
क्षमभविष्यत् वह्निश्चेत्प्राज्वलिष्यत् ओदनमपक्ष्यत् इत्यादौ इत्याहुः ।
 
आह