This page has not been fully proofread.

७१६
 
न्यायकोशः ।
 

 
अतीतत्वमनद्यतनत्वं परोक्षत्वं च लिडर्थः ( तर्का० ४ पृ० ११ ) ।
यथा जुगोप गोरूपधरामिवोर्वीम् (रघु० २१३ ) इत्यादौ लिडर्थः ।
अत्र सूत्रम् परोक्षे लिटू (पा० सू० ३।२।११५ ) इति । तदर्थस्तु
• अनद्यतने भूते परोक्षेर्थे लिट् भवति इति । तेन अद्यतने भूते अनद्यतने
भविष्यति भूतेप्यपरोक्षे च न लिट्प्रयोगः स्यात् । अत्र परोक्षत्वं च
साक्षात्करोमि इत्येतत्प्रतीतिसाक्षिकलौकिक विषयत्वाभाववत्त्वम् ।
उपनीतक्रियायां यथाश्रुतप्रत्यक्षा विषयत्वरूपस्य परोक्षत्वस्याभावेपि
पपाच इत्यादिप्रयोगानुपपत्तिः (वै० सा० ६० ल० पृ० १२४ ) ।
अत्र परोक्षत्वातीतत्वयोर्लिंडर्थयोरन्वयस्तु लुङर्थवदुत्पत्तौ ज्ञेयः ( तर्का०
 
तेन
 
४ पृ० ११ ) ।
 
लिपिः - शब्दस्मारकः शब्दानुमापको वा रेखाविशेषः ( म० प्र० ४
पृ० ६६ ) । यथा क इति रेखा प्रजापति इति शब्दस्य स्मारिका ।
केचित्तु लिपि प्रमाणान्तरं मन्यन्ते । लिपिभेदास्तु तत्तद्देशभेदेन देव-
नगरी ग्रन्थाक्षरलिप्यादयो बहवः । अत्र सिद्धान्त विदस्तु लिपिस्तु शब्द-
स्मारकतया शब्दानुमापकतया वा प्रमायामुपयोगिनी न तु प्रमाणान्तरम् ।
इत्याहुः । अनुमानं च अयं पुरुषः घटमानय इति शब्द विषयकाभि-
प्रायवान् घटमानय इति शब्दव्यञ्जकलिपिकर्तृत्वात् यथा अहम् इति ॥
अस्मादनुमानात् घटमानय इति शब्दस्यानुमितिर्भवति । ततोर्थप्रत्ययः
 
इति ज्ञेयम् ( म० प्र० ४ पृ० ६६ ) ।
 
लुङ् – (तिङ् ) कृतवधादेशस्य हन्तेरर्थे अथ वा सिजन्तस्य धातोरयें या ।
अतीतत्वस्य बोधिका तादृशी तिङ् लुङ्शब्देनोच्यते ।
 
अवधीद
 
यथा
 
अवधिष्टाम् अवधिषुरित्यादौ अपाक्षीदित्यादौ च लुङ् ( श० प्र०
 
श्लो० १०३ पृ० १६१ ) । यथा वा घटोभूदित्यादौ (वै० सा
ल० पृ० १४७) । जघान हन्ति स्म इत्यादौ लिडलडादिको हन्तेरयें
• अतीतत्वस्य बोधकोपि न कृतवधादेशस्य न वा सिजन्तस्य इति
तत्रातिप्रसङ्गः । वध्यात् वध्यास्ताम् वध्यासुः इत्यादौ कृतवधादेशस्य
• तस्यार्थे स्वार्थानुभाविकापि आशी: नातीतत्वस्य बोधिका इति न तत्राति
 
-
 
.
 
.