न्यायकोशः /77
This page has not been fully proofread.
न्यायकोशः ।
२३
अनुज्ञा
- (लिङर्थो
विधिः) [क] या निवारणाभावव्यजिका पूजा इच्छा
०
वा सा ( कु० व्या० ५ ) । [ ख ] निषेधाभावव्यञ्जिकेच्छा (वै०
सा० द० ) । [ग] कर्तुरिष्टत्वे सति वॠनुमतत्वम् । यथा पत्नी
पचत्वित्यादौ लोडर्थोनुज्ञा ( श० प्र० १४५ ) ।
PE
अनुतन्त्रम् – वार्तिकम् । नित्याः शब्दार्थसंबन्धाः समाम्नाता महर्षिभिः ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ ( हरिः- वाक्यपदीये
१ ।२३। )
PAD
अनुत्पत्तिसमः- (जाति: ) ( क ) प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः
-
(गौ० ५। १ । १२ ) । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धटवदित्युक्ते
अपर आह । प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं
नास्ति । तदभावान्नित्यत्वं प्राप्तम् । नित्यस्य चोत्पत्तिर्नास्ति । अनुत्पत्या प्रत्य-
वस्थानमनुत्पत्तिसमः ( वात्स्या० ५। १ । १२) । यथा वा घटो न नित्यो
जन्यैकत्वादित्यादौ कश्चिदाह । यदि जन्यैकत्वमनित्यत्वे प्रमाणं तदा घटे
एकत्वोत्पत्तेः पूर्वं तदभावान्नित्यत्वम् । नित्यश्चेत्तर्ह्यनुत्पन्न एवेति ( नील ●
४४) । असिद्धयादिदेशनाभासोयमिति बोध्यम् ( गौ० वृ०५/१/१२ ) ।
[ ख ] साधनाङ्गपक्षहेतु दृष्टान्तानामुत्पत्तेः प्राग्धेत्वभाव इति अनुत्पत्त्या
प्रत्यवस्थानम् । यथा घटो रूपवान्गन्धात्पटवदित्युक्ते घटोत्पत्तेर्गन्धोत्प-
त्तेश्च पूर्वं हेत्वभावादसिद्धिः । पटे च गन्धोत्पत्तेः पूर्वं हेत्वभावेन दृष्टा-
न्तासिद्धिः । एवमाद्यक्षणे रूपाभावाद्वाधश्च । अनुत्पत्त्या प्रत्यवस्थानस्य
तत्रापि सत्त्वात् । उत्पत्तेः पूर्वं हेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षण-
त्वात् ( गौ० वृ० ५ । १२।१२ ) । [ग] अनुत्पन्ने साधनांशे हेतुवृत्तेर-
भावतः । भागासिद्धिप्रसङ्गः स्यादनुत्पत्तिसमो मतः ॥ ( ता० २० २
०
श्लो० ११५ ) ।
अनुद्धर्षः – देशकालानुकूल्येन
प्रियवस्त्वनुस्मरणेन वा जायमानं मनः-
शैथिल्यं तुष्टिः । अयमेवोद्धर्षः । तद्विपर्ययोनुद्धर्षः (सर्वद० सं० पृ० १२४ ) ।
अनुद्भूतत्वम् – शुक्लत्वादिव्याप्यो धर्मः ( सि० च० १ पृ०४ ) ( मु०
१ पृ०११९ ) । शिष्टं तु उद्भूतत्वशब्दव्याख्याने दृश्यम् ।