2023-11-22 05:48:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७१५
 
वह्निव्याप्यधूमवान्पर्वतो
 
वह्निमान् इत्यनुमितिर्भवति न तु केवल: पर्वतो

वह्निमान् इति । इदं चोदयनाचार्याणां मतम् । तन्मते सर्वत्र तादृश-

हेतुविशिष्टः पक्षः साध्यवान् इत्याकारैवानुमितिर्भवति इति विज्ञेयम् ।

अयं भावः । आचार्याणां मते हेतोः सर्वत्रैव धर्मितावच्छेदकतया

भानात् पर्वतत्वाद्यवच्छेदेन हेतुमत्ताज्ञानस्थलेपि ( वह्निव्याप्यधूमवान्पर्वतः

इति परामर्शेपि ) वह्निव्याप्यधूमविशिष्टपर्वतो वह्निमान् इत्याकारिकैवानु-

मितिर्भवति इति ( ग० २ सामान्यनि० पृ० ४ )।
 

 
<
लिट्>
(तिङ् ) [ क ] द्विरुक्तभिन्नधात्वर्थे स्वार्थस्यान्वयबोधने या न

योग्या तादृशी तिङ् लिट्पदेनाभिधीयते ॥ यथा जघान जन्नतुरित्यादौ

लिट् । अत्र द्विरुक्तस्यैव धातोरर्थे स्वार्थान्वयं प्रत्यया बोधयन्ति इति तत्र

लक्षणसमन्चयो बोध्यः। अशिश्रियत् अदुद्रुवत् इत्यादौ द्विरुक्तस्येव

अपाक्षीत् इत्यादौ द्विरुक्तान्यस्यापि धातोरर्थे स्वार्थान्वयं लुङादयो

बोधयन्ति । अतो न लुङादावतिप्रसङ्गः । पिपक्षति पापच्यते इत्यादौ

च सनादयस्तादृशा द्विरुक्तस्यैव धातोरर्थे स्वार्थान्वयबोधका अपि न तिङः

इति न तत्रातिप्रसङ्गः । अत्र प्रकृत्यर्थे वर्तमानत्वाद्यनाकाङ्क्षत्व इति

विशेषणं देयम् । तेन पचे पचावहे पचावः इत्यादौ न लडाद्यतिप्रसङ्गः।

[ख] द्विरुक्तस्य यजेरर्थे चकास्तेरामयुतस्य वा । या स्वार्थस्यान्वये

हेतुः सा वा लिट् कथ्यते बुधैः ॥ जुहोतीत्यादौ द्विरुक्तस्य धातोरर्थे

स्वार्थबोधकोपि लडादिः न यजेरर्थे इति न तत्र लडादावतिप्रसङ्गः ।

यथा काशांचक्रे लोलूयामास ईक्षांबभूवेत्यादौ मनश्चचाल सुरभिभाग

आजगाम इत्यादौ च लिट् । अत्र अतीतः काल इव धात्वर्थनिष्ठं

परोक्षत्वमपि लिटोर्थः । तच्च परोक्षवम् अतीन्द्रियत्वम् । तेन अतीत-

कालवृत्त्यतीन्द्रियचलनवन्मनः इत्या कारकस्तत्र बोधः ( श० प्र०

लो० १०५ टी० पृ० १६२) । अत्र चैत्रश्चारु पपाच व्याने

किरणावलीमुदयनः इत्यादौ लिटि लक्षणसमन्वयश्चिन्त्यः । चिन्ताबीजं

तुष्टिहिं कलिङ्गान् जगाम इत्यत्रेव पूर्वोक्तस्थलयोरपि

लिट्साधुस्खोपपादकं सूत्रान्तरमेव इति (ग० व्यु० ल० पृ० १३९) ।