2023-11-22 05:47:34 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७१४
 
न्यायकोशः ।
 
शास्त्रज्ञादयस्तु पुंसः असाधारणमिन्द्रियम् ( उपस्थ: ) इत्यादुः ।

१८ चिह्नम् शिवलिङ्गं चेति काव्यज्ञाः पौराणिकाश्चाहुः । ९ उपक्रमोप-

संहारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥

( वेदान्तसार: ) ( सर्व० सं० पृ० ४०५ शां० ) । इदमेव लिङ्ग
 

मित्युच्यते ।
 
७७)
 

 
<
लिङ्गाभासत्वम्>
१ अङ्गवैकल्यम् । २ दुष्टलिङ्गत्वम् ।

 
<
लिङ्गि>
१ साध्यम् ( दीधि० २) । यथा लिङ्गाविषयकलिङ्गिविषयक

ज्ञानजनकन्यायावयवत्वम् प्रतिज्ञालक्षणम् ( चि० २ अव० पृ०

इत्यादौ लिङ्गिशब्दार्थः साध्यम् । यथा वा तलिङ्गलिङ्गपूर्वकम्

(सांख्यका० ५) इत्यादौ । अत्र लिङ्गि इत्यस्य लिङ्गज्ञानज्ञेयम् इत्यर्थो

ज्ञेयः । २ पक्षः । ३ पक्षधर्मताज्ञानम् । अत्रार्थे लिङ्गमस्यास्ति इति ।

विग्रहोपि ज्ञेयः ( सांख्य० कौ० श्लो० ५ पृ० १० ) ।

 
<
लिङ्गोपधानम् - >
लिङ्गोपहिते पक्षे लैङ्गिकस्य साध्यस्य भानम् ।

"विग्रहः । लिङ्गस्य हेतोः उपधानम् पक्षे वैशिष्ट्यम् इति । लिङ्गोपहिते

इत्यस्य लिङ्गेन व्याप्तिपक्षधर्मता विशिष्टेन हेतुना उपहितः विशिष्ट

तस्मिन् इति विग्रहः । तथा च साध्यानुमानाङ्गहेतुयुक्ते पक्ष इत्यर्थः ।

यथा शुद्धपर्वतपक्षकेपि वह्निसाध्य के धूमहेतुके स्थले पर्वतो वह्निमा

धूमादित्यादौ वहिव्यायधूमविशिष्टे पर्वते वर्भानम् वहिव्याप्यमा

न्पर्वतो वह्निमान् इति । तथा हि वह्निव्याप्यो हि धूमो वहेर्लिङ्गम् ।

पक्षे वह्नेर्भानम् । वह्निव्याप्यधूमवान्पर्वतः इति परामर्शोत्तरं

नुमितो ज्ञानलक्षणया तादृशपक्षभानस्यावश्यकत्वात् । तथा
 
.
 
अत्र
 
-
 
वदति।
 
रायमाना
 

 
<
लिङ्गोपधानमतम्>
लिङ्गोपहित लैङ्गिकभानम् इत्यभिमतम् । अत्र व्युत्पत्ति

व्याप्यधूमवान् पर्वतो वह्निमान् इत्येव तत्रानुमितेराकारः इति विज्ञेयम् /
 
वहि

 

लिङ्गस्य व्याप्तिपक्षधर्मता विशिष्टहेतोः उपधानम् भानम्
 

अर्थात् पक्षे भवति इति मतम् । लिङ्गोपहितेत्यस्यार्थश्च लिङ्गोपहित

लिङ्गविशिष्टे पक्षे लैङ्गिकस्य साध्यस्य भानं भवति इति । यथा सु

पर्वतत्वावच्छिन्नपक्षकवह्विसाध्यकस्थले पर्वतो वह्निमान्धूमादित्यादावा
 
वा
वैशि