2023-11-22 05:45:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७१३
 
-
 
अत्र पुरोडाशसदनभूतं बर्हिः खण्डयामि इति श्रुतपदसामर्थ्यात् बर्हि-

र्देवसदनं दामि इति मन्त्रस्य कुशकाशादिरूपाणां मुख्यबर्हिषां लवना-

ङ्गत्वम् । न तु समाख्यातो दर्भसदृशानामुलपादिरूपतृणविशेषाणां गौण-

बर्हिषां लवनाङ्गत्वम् इत्यर्थः (लौ० भा० टी० पृ० २१ ) । अथ वा

दामि इति पदस्य दा लवने इत्यस्माद्धातोः सिद्धस्य छेदनप्रकाशन-

सामर्थ्यात् बर्हिः इत्यस्य चास्तृतदर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने

समुदायमन्त्रस्य विनियोगोवगम्यते ( तत्वबोध ० ) ( वाच० ) । स्रवेणा-

बद्यतीत्यत्र अवदानसामान्यशेषत्वावगमेपि स्रुवस्य लिङ्गात्सामर्थ्यरूपात्

आज्यसांनाय्यादिद्रवद्रव्यावदान विशेषाङ्गत्वम् । स्रुवेण मांसादिद्रव्यावदा-

नस्य कर्तुमशक्यत्वात् इति । ऐन्द्या गार्हपत्यमित्यत्र मन्त्रस्य प्राप्तार्थत्वेना-

नुवादकत्व संभवात् मन्त्रस्थेन्द्रपदस्यैव इदि परमैश्वर्ये इति धास्वनुसारादै-

श्वर्यगुणयोगादग्नौ लक्षणा इति गार्हपत्यप्रकाशने समर्थमेव मन्त्रं ऐन्द्या

इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुते (लौ० भा० टी० पृ० २१ )

इति । मीमांसकाभिमतमिदं च लिङ्गं विनियोगविधेः सहकारि भवति

इति विज्ञेयम् (लौ० भा० पृ० १६) । ६ स्वरूपम् । यथा

सप्तदशावयव लिङ्गदेहः इत्यादौ सप्तदश सूक्ष्मदेहस्य लिङ्गम् इत्याहुः ।

अत्र सूत्रम् सप्तदशैकं लिङ्गम् (सांख्य० सू० अ० ३ सू० ९) इति ।

तदर्थश्च सूक्ष्मशरीरमप्याघाराधेयभावेन द्विविधं भवति । तत्र सप्तदश

मिलित्वा लिङ्गशरीरम् । तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः ।

एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्च इति सप्तदश । अहंकारस्य

बुद्धावेवान्तर्भावः (सांख्य० भा० ३।१ ) इति । अत्रोक्तम् वासना

भूतसूक्ष्मं (तन्मात्रा) च कर्मविद्ये तथैव च । दशेन्द्रियं मनो बुद्धिरेत-

लिङ्गं विदुर्बुधाः ॥ (वाशिष्ठे० ) इति । कर्मात्मा पुरुषो योसौ बन्ध-

मोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिना युज्यते च सः ॥ (भार०

मोक्षध) (सांख्य० मा० ३।९) इति । अत्रेदं बोध्यम् । सांख्य

लिङ्गशरीरस्यैव सुखदुःखकार्यकत्वम् । कुतः । एकस्य लिङ्गदेहस्यैव सुख-

दुःखाख्यभोगात् । न तु स्थूलशरीरस्य । मृतशरीरे सुखदुःखाद्यभावस्य

सर्वसंमतत्वात् (सांख्य० भा० अ० ३ सू० ८) इति । ७ धर्म-

९० न्या० को०