2023-11-22 05:45:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७१२
 
न्यायकोशः ।
 
नामार्थ ०
 
तथात्वेन गुणगतविशेषाच्छन्देषु लिङ्गविशेषः इति कल्प्यते । स च

विशेषः शास्त्रे इत्थमभ्यधायि । विकृतसत्त्वादीनां तुल्यरूपेणावस्थाना-

न्नपुंसकत्वम् । सत्त्वस्याधिक्ये पुंस्त्वम् । रजस आधिक्ये स्त्रीत्वम् इति ।

एवं च लिङ्गस्य शब्दधर्मत्वेपि शब्देन सहार्थाभेदारोपात् असति बाधके

अर्थेपि साक्षात् तत्पारतध्येण वा सर्वत्र तस्य विशेषणत्वम् (वाच० ) ।

अथवा सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसकत्वम् । आधिक्यं

पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छन्दनिष्ठं तत्तच्छन्दवाच्यं च ।

तमेव विरुद्धधर्ममादाय तटादिशब्दा मिद्यन्ते (वै० सा०

पृ० २२४ ) इति । अत्रेदं बोध्यम् । पुंलिङ्गः शब्दः इति व्यवहारात

स्वमोर्नपुंसकात् ( पा० सू० ७ ११२३ ) इत्यत्र शब्दस्यैव नपुंसकत्व-

व्यपदेशात् दारान् इत्यादौ पुंस्त्वान्वयबाधाञ्च लिङ्गस्य शब्दधर्मत्वम् इति ।

तटादिशब्दाना मनेक लिङ्गत्वव्यवहारः समानानुपूर्वीकत्वेनैव शब्दानाम-

भेदारोपात् । वस्तुतः तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति । अत्र महा-

भाष्यम् एकार्थ शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वम् इति दिक् (वाच० ) ।

इदं शाब्दिकमतम् । पुंस्त्वादयस्तिस्रो जातयः इति वैशेषिका आहुः ।

पुंस्त्वादि शब्दनिष्ठम् इति प्राञ्च आहुः । पुंस्त्वादिलिङ्गमर्थनिष्ठमेवेति

नव्यवैयाकरणा आहुः । पुंस्त्वादिलिङ्गस्यार्थनिष्ठत्रे प्रमाणं च इयं व्यक्तिः

इदं वस्तु अयं पदार्थः इति व्यवहारा अप्रतिबद्धप्रसराः इति । अत्रेद-

माकूतम् पुष्यः तारका नक्षत्रम् इति शब्दनानात्वदर्शनात्स्त न केशाद्यति •

रिक्तमेव लिङ्गमर्थनिष्ठम् इति ( ल० म० ) ( वै० सा० द० नामार्थ ०

पृ० २२५ ) । अत्रोक्तम् स्त्रीलिङ्गमपि पुलिङ्ग क्लीबलिङ्गमिति त्रिधा

शब्दसंस्कारसिद्ध्यर्थे भाषया नाम भिद्यते ॥ (श० प्र० श्लो० ५३ ) इति ।

अधिकं तु स्त्रीलिङ्गम् इत्यादितत्तच्छब्दे द्रष्टव्यम् । ५ मीमांसकाच

अर्थप्रकाशनसामर्थ्य लिङ्गम् इत्याहुः । सामर्थ्य द्विविधम् शब्दगतं साम

अर्ध्यम् अर्थगतं सामर्थ्य च । तत्राद्यम् बर्हिर्देवसदनं दामि इति । द्वितीयं

तु स्रुवेणाबद्यति इति । एवम् ऐन्द्या गार्हपत्यमुपतिष्ठते स्योनं ते सद

सर्वशब्दानां लिङ्गमित्यभिधीयते इति । क्षमता च लिङ्गम् इति च (वाच०) /

कृणोमि इत्यादिकानि लिङ्गस्योदाहरणानि ज्ञेयानि । अत्रोक्तम् सामर्थ्य