This page has not been fully proofread.

७१०
 
न्यायकोशः ।
 
इदमेव तृतीयं लिङ्गज्ञानम् । तथा हि लिङ्गज्ञानं त्रिविधम् । तद्यथा पर्वते
घूमेन वह्निसाधने धूमाझ्योर्व्याप्तौ गृह्यमाणायां महानसादौ यद्धूमज्ञानं
तदादिमम् । पक्षे यद्धूमज्ञानं तद्वितीयम् । ततः पूर्वगृहीतां धूमाग्यो-
यिोप्तिं स्मृत्वा तत्रैव पर्वते वह्निव्याप्यत्वेन यद्भूमज्ञानं तत्तृतीयम् । इदमेव
लिङ्गपरामर्शः इत्युच्यते ( सि० च० ) ( त० भा० ) । अथ वा महान
सादौ दृष्टान्ते वह्निधूमयोर्भूयः सहचारदर्शनात्
 
-
 
प्रथमम् । ततः पर्वतादौ धूमं दृष्ट्वा व्याप्यत्वेन तत्स्मरणं द्वितीयम् । ततः
• तत्रैव व्याप्यत्वेन धूमस्य परामर्शो वह्निव्याप्यधूमवान् इत्येवंरूपस्तृतीयः
( त० कौ० २ ) । यद्वा प्रथमं दृष्टान्ते धूमदर्शनम् । ततः व्याप्ति-
• ज्ञानम् । ततः तद्विशिष्टपक्षधर्मताज्ञानम् ( न्या० म० २ पृ० १८) ।
लिङ्गम् – १ ( हेतुः ) [क] व्याप्तिबलेन यद्यस्य गमकम् तत् तस्य
लिङ्गम् । यथा पर्वतो वह्निमान्धूमादित्यादौ धूमो बहेलिङ्गम् ( प्र० प्र० )
( त० मा० पृ० ९ ) । इदं लिङ्गं द्विविधम् सल्लिङ्गम् असल्लिङ्गं च ।
• तत्र व्याप्तिपक्षधर्मतावल्लिङ्गं सलिङ्गम् । तच्च व्यापकेन साध्येन व्याप्यं
नियमः । अत्र उभयविधमपि लिङ्गं प्रत्येकं त्रिविधम् अन्वयव्यतिरेक
भवति । असल्लिङ्गं तु व्याप्तिपक्षवर्मतान्यतरशून्यम् । तस्य व्याप्यत्वे न
• केवलान्वयि केवलव्यतिरेकि चेति ( न्या० म० २ पृ० १८)
( गौ० वृ० ) ( त० सं० ) । अत्रापि विभागः संपद्यते । अन्वयव्यतिरेकि
द्विविधम् सपक्षवृत्ति तदेकदेशवृत्ति चेति । तत्राद्यम् शब्दः अनित्यः
कृतकत्वाद्धटवत् इति सपक्षव्यापकम् । सर्वस्मिन्ननित्ये कृतकृत्वस्य
वृत्ते: । द्वितीयं यथा पर्वतोनिमान् धूमवत्त्वात् इति सपक्षैकदेशवृत्ति /
अग्निमत्यपि कचिदवृत्तेः ( प्र० प० पृ० १८) इति । अत्र ।
• अनुमानशब्दव्याख्याने दृश्यम् । लिङ्गं ( अनुमानम् ) द्विविधम् दृष्टम
• सामान्यतो दृष्टं च । तत्र दृष्टं प्रसिद्धसाध्ययोरत्यन्तजायभेदे अनुमानम् ।
यथा गव्येव सास्त्रामात्रमुपलभ्य देशान्तरे सास्नामात्रदर्शनात् गवि प्रति
• वृत्तितोनुमानं सामान्यतो दृष्टम् । यथा कर्षकवणिग्राजपुरुषाणां प्रवृत्ते
पत्तिर्भवति । प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्म सामान्यानु
 
.
 
शिष्टं तु