2023-11-22 05:44:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७०९
 
इत्यादि । अत्र धातोः यदि इत्यस्य वा निरूढलक्षणया भेदोर्थः । तेन

धूमवद्भेदाश्रयतावान् हृदः इत्यर्थः । एवम् गुणत्वं यदि घटे स्याद्रव्ये

स्यात् इत्यादौ तु धातोरत्यन्ताभाव एवार्थः । तदुत्तरलिङस्तु पूर्ववत्

आश्रयत्वम् अर्थः । तथा च घटवृत्तित्वाभाववद्गुणत्वं घटवृत्तित्वव्यापकी-

भूतस्य द्रव्यवृत्तित्वस्याभाववत् इत्येवं तत्र बोध: ( श० प्र० श्लो० १००

टी० पृ० १५५ ) । (६) जन्यत्वेर्थे लिङ् यथा यो ब्राह्मणायावगुरेतं

शतेनं यातयात् इत्यादि । अत्र हेतुहेतुमतोर्लिङ् (पा० सू० ३/३/१५६)

इत्यनुशासनात् यः शतयातना हेतुब्राह्मणावगोरणवान् तदीयशतयातनं

ब्राह्मणावगोरणजन्यम् इत्याकारको बोधः । अवगोरणं हन्तुमुद्यमः ।

अत्र शाब्दिकमते तु शाब्दबोधः यत्कर्तृको ब्राह्मणोद्देश्यको वधोयमः

तत्कर्मिका तादृशवधोद्यमजन्या शतसंवत्सरयातना इत्याकारको द्रष्टव्यः
( वै०
 

० सा० ६० पृ० १४६ ) । प्राभाकरास्तु अत्र जन्यजनकभावो

न लिडर्थः । अपितु पौर्वापर्यमात्रं लिङर्थः । पश्चात्तस्य कल्पनात् ।

अन्यथा दुरितापूर्वस्य वाच्यत्वापत्तेः इत्याहुः ( श० प्र० श्लो० १००

टी० पृ० १५८) । (७) अधीष्टार्थे लिङ् यथा माणवकमध्यापये-

द्भवान् इत्यादि । अधीष्टश्च सत्कारपूर्वको व्यापारः । तथा च माणवक-

मध्यापयेद्भवानित्यादौ अध्यापन/दिव्यापारे संमानपूर्वकप्रवृत्यनुकूलो

व्यापारः इत्यर्थः । अयमेव अभ्यर्थना इत्युच्यते । अत्र संमानपूर्वम-

ध्यापनादिव्यापार इष्टसाधनम् इति बोध: ( वै० सा० द० पृ०

१३१ - १३२ ) । (८) संप्रश्न (संप्रधारणे ) लिङ् यथा किं भो

वेदमधीयीय उत तर्कमधीयीय इत्यादि (काशिका ० पा० सू० ३/३/१६१

पृ० १८१ ) । आशिषि लिङ् यथा चिरं जीव्याद्भवान् । यथा वा

अव्यादजोडिमणिमांस्तव जान्वथोरू यज्ञोच्युतः कटितटं जठरं हयास्यः

( भाग० स्क० १० अ० ६ श्लो० २२ ) इत्यादि ।
 

 
<
लिङ्गपरामर्शः>
परामर्शशब्दवदस्यार्थोनुसंधेयः । अत्रेदं बोध्यम् । लिङ्ग-

परामर्शोनुमानम् इति वार्तिककारसिद्धान्तः । एके ताबद्वर्णयन्ति लिङ्ग-

लिङ्गिसंबन्धस्मृतिरनुमानम् इति (न्या० वा० ११ १/५ पृ० ४७ ) ।