न्यायकोशः /762
This page has been fully proofread once and needs a second look.
तत्र विध्याद्यर्थबोधिका लिङ् विधिलिङ । आशीर्मात्रबोधिका लिङ् आशी-
र्लिङ् । विध्यादयो लिङर्थास्तु विधिः निमन्त्रितत्वम् आमन्त्रितत्वम् प्रार्थना
आश्रयत्वम् जन्यत्वम् अधीष्टः संप्रश्नः इत्यादयो ज्ञेयाः । अत्र सूत्राणि
विधिनिमन्त्रणामन्त्रणावीष्टसंप्रश्न प्रार्थनेषु लिङ् ( पा० सू० ३/३/१९६१)
•
हेतुहेतुमतोर्लिंङ् (पा० सू० ३/३/१५६) आशिषि लिङ्लोट
(पा० सू० ३ । ३ । १९७३) इत्यादीनि विध्याद्यर्थपरत्वेन योज्यानि । अ
•
वैयाकरणा आहुः । विधिनिमन्त्रणामन्त्रणाधीष्टानां चतुर्णामनुगतप्रवर्तना-
त्वेन वाच्यता । उक्त च भर्तृहरिणा अस्ति प्रवर्तनारूपमनुस्यूतं चतु
र्ध्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ (वै० सा० ल०
पृ० १३२ ) इति । अत्रेदं बोध्यम् । प्रवर्तनात्वं च प्रवृत्तिजनक
ज्ञानविषयतावच्छेदकत्वम् । तच्चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः
( वै० सा० पृ० १३३ ) इति । अत्र यथाक्रममुदाहरणानि प्रदर्यन्ते । तत्र
(१) विधावर्थे लिङ् यथा यजेत पचेत भवान् ग्रामं गच्छेत् इत्यादि ।
१०० ) इति । अत्रेष्टत्वं च समभिव्याहृतपदोपस्थापितकामनाविषयत्वम्
अत्र नव्यनैयायिकमते इष्टसाधनत्यादिकं विध्यर्थ: ( श० प्र० श्लो०
(ग० व्यु० ल० ) ( वॅ० सा० द० ल० पृ० १३३) । अत्राधिक
•
षयतावच्छेदकत्वोपलक्षित नरकत्वाद्यवच्छिन्नसाधन तात्वावच्छिन्न प्रतियोगि
तु विधिशब्दव्याख्यानावसरे संपादयिष्यते । तत्तत्र द्रष्टव्यम् / द्वेषवि-
७०८
•
ताकाभावो विध्यर्थः इति प्राचीननैयायिका आहुः । आचार्यास्तु
भिप्रायो विध्यर्थः । पाकं कुर्या: पाकं कुर्याम् इति मध्यमोत्तमपुरुष
योर्लिंङ् इच्छाविशेषात्मकाज्ञाध्येषणानुज्ञाप्रश्नप्रार्थनार्थकतया प्र
(२) निमन्त्रितत्वे लिङ् यथा श्राद्धे भुञ्जीत भवान् इह भुञ्जीथास्त्वम्
च्छाया मेकशक्तेरुचितत्वात् इत्याहु: (वै० सा० ६० ल० पृ० १४५ ) /
इत्यादि । (३) आमन्त्रितत्वे ( कामचारकरणे ) लिङ् यथा भवानि-
हासीत पुत्रोत्सवे भवान् भुञ्जीत इत्यादि । ( ४ ) प्रार्थनायां लिङ्ग यथा
भोजनं लभेय धेनुं दद्यास्त्वमस्मभ्यम् भवति मे प्रार्थना व्याकरणमधी
यीय इत्यादि । ( ५ ) आश्रयत्वे लिङ् यथा हृदो यदि धूमवान्
पुरु
स्मात्
4