2023-11-22 05:41:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७०७
 
<लाक्षणिकः>
१ लक्षणया अर्थबोधकः शब्दः । यथा गङ्गायां घोषः प्रवस-

तीत्यादौ गङ्गाशब्दः । अत्राधिकं तु लक्षकशब्दव्याख्याने द्रष्टव्यम् ।

२ लक्षणयुक्तः ।
 
-
 

 
<
लाघवज्ञान सहकृतानुमितिः>
(अनुमितिः ) सामान्यधर्मावच्छिन्नस्य सा-

ध्यत्वे सामान्यधर्मावच्छिन्नव्याप्यवत्तापरामर्शाद्विशेषधर्मे लाघवज्ञानसह-

कृताज्जायमाना विशेषधर्मावच्छिन्नविधेयकानुमितिः । यथा पर्वते धूमेन

शुद्धवह्निसाधनेपि पर्वतो महानसीयवह्निमान् इत्यनुमितिः । अत्रेदं बोध्यम् ।

वहिव्याप्यघूमवान् पर्वतः इति परामर्शादपि महानसीयवहौ लाघवम्

इति लाघवज्ञानबलान्महानसीयवह्नित्वादिना वह्नयनुमिति: पर्वतो महान-

सीयवह्निमान् इति जायते ( त० प्र० ख० ४ पृ० १३० ) इति ।

अस्मद्गुरुचरणास्तु वहेर्महानसीयत्वे लाघवम् इति लाघवज्ञानसत्त्वे वह्नि-

व्याप्यधूमवान्पर्वतः इति परामर्शात् पर्वतो महानसीयवह्निमान् इत्यनु-

मितिर्जायते इति प्राहुः । एवम् इतरबाधग्रहसहकारसत्त्वेप्यनुमितिर्भवति ।

सा च इतरबाधग्रहसहकृतानुमितिशब्दे दृश्या ।
 
.
 

 
<
लाघवम्>
१ लघुत्वशब्दवदस्यार्थोनुसंधैयः । २ तर्कविशेषविषयः इति

प्राञ्च आहुः ( सर्व० सं० पृ० २३९ अक्ष० ) । ३ आरोग्यम् इति

भिषज आहुः ( राजनि० ) ।
 
-
 

 
<
लाभः - >
१ स्वत्वावच्छिन्नो व्यापारः । यथा धनं लभते प्राप्नोति इत्यादौ

धात्वर्थः । अत्र धात्वर्थनिविष्टे स्वत्वे धनादेराधेयत्वेनान्वयः ( श० प्र०

श्लो० ७२ टी० पृ० ९७ ) । २ विधीयमानमुपायफलं लाभः

( सर्व० सं० पृ० १६२ नकु० ) ।
 

 

 

 
<
लिङ्>
(तिङ् ) विध्याद्यन्यतमस्यान्वयबोधं प्रति समर्था लटो लोटश्च भिन्ना

तिङ् लिङुच्यते । पटमानय इत्यादौ सप्तमं पदं गृह्णाति इत्यादौ च विधिं

बोधयन्त्यावपि लोट्लटौ न ताभ्यां भिन्ने इति यष्टव्यम् देयम् इत्यादौ तु

तव्यादिकं कार्यत्वादिकं बोधयदपि न तिङ इति न लोट्लटोस्तव्यादौ

चातिप्रसङ्गः । भावित्वाद्यप्रत्यायकत्वेन विशेषणाच्च पच्यात् इत्यादावाशी-

र्लिङि न प्रसङ्गः (श० प्र० श्लो० १०० टी० पृ० १४६-१४७) ।