This page has not been fully proofread.

न्यायकोशः ।
 
धिकरणकालः । यथा पचतीत्यादौ लडर्थः (ग० व्यु० ल० ) । अत्र
लडर्थवर्तमानत्वं चाख्यातार्थकृत्याद्यन्वयि तत्तत्कालवृत्तित्वमेव ( श० प्र०
श्लो० ९७ टी० पृ० १४२) । शाब्दिकास्तु प्रारब्धापरिसमाप्तो भूत-
भविष्यद्भिन्नो वा कालो वर्तमानकालः इति वदन्ति (वै० सा० ल०
पृ० १२० ) ( काशिका ७ ३ । २ । १२३ ) । तदर्थश्च विनष्टावयवप्राग-
'भावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वम् । अथ वा शब्दप्रयोगाधिकरण
 
७०६
 
वृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्नत्वम् ( वै० सा०
 
गच्छति
 
द० ल० पृ० १२० ) । वर्तमानसामीप्यं तु वर्तमानक्षणोत्तरकाला-
वच्छेद्यत्वम् । तेन चैत्रः कदा गमिष्यति इति जिज्ञासायाम् एष‍
इत्युत्तरस्य वर्तमानक्षणोत्तरकालावच्छेद्यगतिमांश्चैत्रः इत्यर्थः इति न
प्रश्नोत्तरभावासंगतिः । अथवा वर्तमानक्षणाव्यवहितप्राक्कालावच्छेद्यत्वम् ।
तेन चैत्रः कदा समागतः इति जिज्ञासायाम् एष आगच्छति इत्युत्तरस्य
● वर्तमानक्षणाव्यवहित प्राक्कालावच्छेद्यागमनवान् इत्यर्थ इति न प्रश्नोत्तर-
भावासंगतिः ( श० प्र० श्लो० ९७ टी० पृ० १४४ ) ।
लता - दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः ( मिताक्षरा अ० २/२२९) //
लयः – १ विनाशः । कार्यस्य कारणे सूक्ष्मीभावेनावस्थानम् इति सांख्या
आहुः । तदुदाहृतम् आसीज्ज्ञानमथोप्यर्थ एकमेवा विकल्पितम् (सांख्य
भाष्य० ११६२) इति । २ प्रलयकालः इति पौराणिका आहुः ।
३ गायकास्तु नृत्यगीतवाद्यानामेकतानतारूपं साम्यं लयः इत्याहुः ।
ते लयभेदाश्च द्विपदी वलतिका झल्लिका छिन्नखण्डिका इत्यादयश्चत्वारिंश
संख्याकाः संगीतदामोदरादौ द्रष्टव्याः ( वाच० ) । ४ संश्लेषः इति ।
 
• काव्यज्ञा वदन्ति । ५ ईश्वरः इति वेदान्तिनः संगिरन्ते ।
 
लवः - त्रुटिद्वयं लवः प्रोक्तः ( पुरु० पृ० ३१८ ) ।
लवणः- १ ( गुणः ) रसविशेषः । अत्रोच्यते लवणः शोधनो रुच्या
पाचनः कफपित्तदः । पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः ॥ (भावप्र०) /
 
इति । २ सिन्धुदेश । ३ समुद्रः । ४ लावण्ययुतः ।