This page has not been fully proofread.

२२
 
न्यायकोशः ।
 
[ ( स्यात् धूमो वह्निजन्यो न स्याद्वा इत्यापादनम् । अत्राप्रयोजकशङ्का च
पक्षे हेतुरस्तु साध्यं मास्तु इति पर्यवसिता । तत्रानिष्टप्रसङ्गश्च सिद्धव्या-
प्तिकयोधर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापक प्रसञ्जनम् ( त० भा० ४३ ) ।
अनुकरणम् – सशक्रिया दिकरणम् । तच्च गुणक्रियावयवादिभिः सदृशीक-
रणम् । यथा चटचट इत्यनुकरणम् ( वाच० ) । अत्रेदं ज्ञेयम् । अनु-
करणत्वं च शब्दमात्रतात्पर्यकोच्चारणविषयकत्वम् । यथा इतिशब्दसमभि-
व्याहारे गौरित्याह इत्यादौ । इदं चानुकरणं पदार्थविपर्यासकृद्भवति ।
अर्थबोधकं न भवतीत्यर्थ: ( ल० म० ) 1
 
अनुकल्पः- १ गौणकल्पः । यथा भार्याः कार्या: सजातीयाः सर्वेषां श्रेय
स्यः स्युरिति मुख्यः कल्पः । ततोनुकल्पस्तु चतस्रो ब्राह्मणस्येत्यादिः
(पैठीनसिस्मृतिः) । २ प्रतिनिधिः । यथा यवाद्यभावे गोधूमाः मध्वा-
द्यभावे गुडादयः (वाच० ) ।
 
अनुकूलखम् –१ प्रयोजकत्वम् । यथा फलानुकूलव्यापार इत्यादौ ।
२ इच्छाविषयत्वम् । यथा निरुपाध्यनुकूलवेद्यं सुखमित्यादौ ( प० च० ) ।
अनुकूलवेदनीयम्—–[क] इष्टसाधनताज्ञानानधीनेच्छाविषयः । [ख]
इतरेच्छानधीनेच्छाविषयः ( न्या०बी० ४ ) । यथा सुखम् । अत्रेदं
बोध्यम् । सुखानन्तरमिष्टफलान्तरस्याभावेन सुखेच्छा (यागेच्छावत् )
नेष्टसाधनत्वप्रकारकज्ञानेनोत्पद्यते अपि तु सुखत्वप्रकारकज्ञानेनैवोत्पद्यते
इति ( न्या० बो० ४ )।
 
अनुक्लृप्तिः–लक्षणम् । यथा कारणान्तरानुक्लृप्तिवैधर्म्याच्चे त्यादौ ( वै०
 
२। १।२२ ) ।
 
अनुगमः- अनुगतप्रवृत्तिनिमित्तम् ( ग० अव० ) । यथा सर्वेषां घटानाम-
नुगमो घटत्वम् ।
 
अनुग्रहः– [ क ] अभीष्टसंपादनेच्छारूपः प्रसादः । [ ख ] अनिष्टनिवा-
रणपूर्वकेष्टसाधनेच्छारूपाभ्युपपत्तिः । यथा निग्रहानुग्रहे शक्तः प्रभु-
रित्यभिधीयत इत्यादौ ( वाच० ) ।