2023-11-22 04:31:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

७०२
 
न्यायकोशः ।
 
मते तु यत्र शक्यार्थस्य परंपरासंबन्धरूपा लक्षणा सा । यथा

द्विरेफमानयेल्यांदौ द्विरेफादिपदे लक्षितलक्षणा । द्विरेफमान येत्यादौ

परंपरासंबन्धस्तु स्ववाच्यरेफद्वयघटितपदवाच्यत्वादिरूपः ( दि० ४

पृ० १८१ ) । अत्र स्वं द्विरेफपदम् । तस्य वाच्यं रेफद्वयम् । तद्घटितं

पदं भ्रमर इति पदम् । तस्य वाच्यो भ्रमरः । तस्य भावस्तत्त्वं भ्रमर

रूपार्थेस्ति इति द्विरेफपदशक्यार्थस्य रेफद्वयस्य परंपरासंबन्धरूपा लक्षण

भ्रमरे संगच्छते । अत्र द्विरेफादिपदे रेफद्वयसंबन्धो भ्रमरपदे ज्ञायते ।

भ्रमरपदस्य च संबन्धो भ्रमरे ज्ञायते इति तत्र लक्षितलक्षणा जहल्लक्ष-

णैव इति नव्यनैयायिकाः प्राहुः (मु० ४ पृ० १८१ ) । लक्षित-

लक्षणापि गौण्यामेवान्तर्भवति । यथा द्विरेफोस्तीत्यत्र द्विरेफपदवाच्यरेफ-

द्वयसंबन्धिभ्रमरपदेन भ्रमरस्योपस्थापनात् द्विरेफपदशक्यरेफद्वयसंबन्धि

( म० प्र० ४ पृ० ४१ ) । अत्रेत्थं विप्रतिपत्तिः । लक्षितलक्षणापि

भ्रमरपदवाच्यत्वरूपपरंपरासंबन्धस्यैव शक्यसंबन्धत्वात् इति बोध्यम्

वृत्त्यन्तरम् इति प्राञ्चो मन्यन्ते । तन्न । परंपरासंबन्धस्यापि ( न तु

साक्षाच्छक्यसंबन्धस्यैव ) शक्यसंबन्धात्मकलक्षणात्वेन द्विरेफपदस्य
 

स्वलक्ष्यभ्रमरपदघटितपरंपरासंबन्धेन
 
भ्रमररूपार्थोपस्थापकत्व
संभवात्
 

द्विरेफपदलक्षणयैवोपपत्तेर्नातिरिक्तवृत्तिकल्पनम् इति नव्यनैयायिका आहुः
 

( त० प्र० ख० ४ पृ० ३९ ) । आलंकारिकास्तु यत्र लक्षिता

च्छब्दादर्थाभिधानम् तत्रैव लक्षितलक्षणा परिभाषिता । यथा द्विरे
:

रूढिप्रयोजनाभावेपि लक्षितलक्षणा इत्याहु: ( सा० द० टी० ) । अत्र

वैयाकरणास्तु द्विरेफपदं रूढिशत्तया भ्रमरबोधकम् । अवयवार्थप्रतीतिस्तु

नास्त्येव रथन्तरादिवत् । यद्वा पदनिष्ठरेफद्वयस्यार्थ आरोपात्संबन्धित्वेनैव

भ्रमरबोधः । अत एव भ्रमरपर्यायेषु द्विरेफपदस्य कोशेषु पाठः / बाघ-

प्रतिसंधानं विनैव द्विरेफपदाद्भमरबोधेन लक्षणा इत्ययुक्तम् इत्या
 

२ ( ल० म० आकाहावि० पृ० १७ ) ।
 

 
<
लक्ष्मी:>
१ [क ] श्रीविष्णोः पत्नी । अत्र प्रसङ्गतो विषयान्तरमुच्यते ।

पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् ( स्कन्दपु० ) इति ।

दीपान्वितामावास्यायां लक्ष्मीपूजा सर्वैस्तत्कामिभिः कार्या । कोजागर-