2023-11-22 04:30:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७०१
 
निरूढा आधुनिकी गौणी चेति लक्षणा पञ्चविधा (श० प्र० श्लो० २४

पृ० ३५ ) । व्यञ्जना तु शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला । अर्थ-

शक्तिमूला त्वनुमानादिना अन्यथासिद्धा ( त० दी० ४ पृ० ३० ) ।

अत्राधिकं तु व्यञ्जनाशब्दव्याख्याने दृश्यम् । अत्र वैयाकरणा आहुः ।

लक्षणा द्विविधा गौणी शुद्धा च । तत्र स्वनिरूपितसादृश्याधिकरणत्व-

संबन्धेन शक्यसंबन्ध्यर्थप्रतिपादिका गौणी । तदतिरिक्तसंबन्धेन तत्प्रति-

पादिका शुद्धा । सापि शुद्धा द्विविधा अजहत्स्वार्था जहःस्वार्था च इति

( ल० म० आकाहावि० पृ० १३) । आलंकारिकास्तु गौण्याः

शुद्धायाश्च प्रत्येकं सारोपा साध्यवसाना चेति द्वौ भेदौ । तत्र गौण्या

भेदद्वयस्योदाहरणे गौर्वाहीकः गौरयम् इति । शुद्धायां भेदद्वयस्योदाहरणे

तु आयुर्घृतम् आयुरेवेदम् इत्याहुः ( काव्यप्र० उ० २ ) ।

 
<
लक्षणाभासः- >
दोषयुक्तं लक्षणम् । तच्च त्रिविधम् असंभवि अव्यापकम्

अतिव्यापकं चेति। तत्राद्यं यथा गोरेकशफत्वं लक्षणम् इति । द्वितीयं

यथा गो: शबलत्वं लक्षणम् इति । तृतीयं यथा गोर्विषाणित्वं लक्षणम्

इति ( प्र०प० पृ० २ ) ।
 

 
<
लक्षितः>
१ [ क ] लक्षणया बोधितोर्थः । यथा गङ्गायां घोषः इत्यत्र

तीरं लक्षितोर्थः । [ ख ] ज्ञातः । [ग] अनुमितः । २ लक्षकः
 
4
 

शब्द: ( वाच० ) ।
 

 
<
लक्षितलक्षणा>
(लक्षणा) [क] प्राचां मते स्वलक्षितपदशक्यसंबन्धः ।

यथा द्विरेफपदे लक्षितलक्षणा । अत्रार्थे लक्षितस्य पदस्य लक्षणा इति

विग्रहो द्रष्टव्यः ( त० प्र० ख० ४ पृ० ३९ ) । अत्र द्विरेफपदेन

द्वौ रेफौ यत्र इति बहुव्रीहिलक्षणया भ्रमरपदं लक्ष्यते । भ्रमरपदेन च

स्वशक्यसंबन्धी भ्रमररूपोर्थो लक्ष्यते इति द्विरेफपदस्य भ्रमरे लक्षित-

लक्षणोपपद्यते इति । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राश्च आहुः

( त० प्र० ख० ४ पृ० ३८ ) । [ ख ] यत्र लक्षितपदेन लक्ष्यार्थो-

वगम्यते ( न तु शक्यार्थः दि० ) तत्र लक्षितलक्षणा । यथा द्विरेफोस्ती-

त्यत्र द्विरेफपदे ( म० प्र० ४ पृ० ४१) । [ग] नव्यनैयायिकानां