This page has not been fully proofread.

न्यायकोशः ।
 
७०१
 
निरूढा आधुनिकी गौणी चेति लक्षणा पञ्चविधा (श० प्र० श्लो० २४
पृ० ३५ ) । व्यञ्जना तु शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला । अर्थ-
शक्तिमूला त्वनुमानादिना अन्यथासिद्धा ( त० दी० ४ पृ० ३० ) ।
अत्राधिकं तु व्यञ्जनाशब्दव्याख्याने दृश्यम् । अत्र वैयाकरणा आहुः ।
लक्षणा द्विविधा गौणी शुद्धा च । तत्र स्वनिरूपितसादृश्याधिकरणत्व-
संबन्धेन शक्यसंबन्ध्यर्थप्रतिपादिका गौणी । तदतिरिक्तसंबन्धेन तत्प्रति-
पादिका शुद्धा । सापि शुद्धा द्विविधा अजहत्स्वार्था जहःस्वार्था च इति
( ल० म० आकाहावि० पृ० १३) । आलंकारिकास्तु गौण्याः
शुद्धायाश्च प्रत्येकं सारोपा साध्यवसाना चेति द्वौ भेदौ । तत्र गौण्या
भेदद्वयस्योदाहरणे गौर्वाहीकः गौरयम् इति । शुद्धायां भेदद्वयस्योदाहरणे
तु आयुर्घृतम् आयुरेवेदम् इत्याहुः ( काव्यप्र० उ० २ ) ।
लक्षणाभासः- दोषयुक्तं लक्षणम् । तच्च त्रिविधम् असंभवि अव्यापकम्
अतिव्यापकं चेति। तत्राद्यं यथा गोरेकशफत्वं लक्षणम् इति । द्वितीयं
यथा गो: शबलत्वं लक्षणम् इति । तृतीयं यथा गोर्विषाणित्वं लक्षणम्
इति ( प्र०प० पृ० २ ) ।
 
लक्षितः–१ [ क ] लक्षणया बोधितोर्थः । यथा गङ्गायां घोषः इत्यत्र
तीरं लक्षितोर्थः । [ ख ] ज्ञातः । [ग] अनुमितः । २ लक्षकः
 
4
 
शब्द: ( वाच० ) ।
 
लक्षितलक्षणा – (लक्षणा) [क] प्राचां मते स्वलक्षितपदशक्यसंबन्धः ।
यथा द्विरेफपदे लक्षितलक्षणा । अत्रार्थे लक्षितस्य पदस्य लक्षणा इति
विग्रहो द्रष्टव्यः ( त० प्र० ख० ४ पृ० ३९ ) । अत्र द्विरेफपदेन
द्वौ रेफौ यत्र इति बहुव्रीहिलक्षणया भ्रमरपदं लक्ष्यते । भ्रमरपदेन च
स्वशक्यसंबन्धी भ्रमररूपोर्थो लक्ष्यते इति द्विरेफपदस्य भ्रमरे लक्षित-
लक्षणोपपद्यते इति । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राश्च आहुः
( त० प्र० ख० ४ पृ० ३८ ) । [ ख ] यत्र लक्षितपदेन लक्ष्यार्थो-
वगम्यते ( न तु शक्यार्थः दि० ) तत्र लक्षितलक्षणा । यथा द्विरेफोस्ती-
त्यत्र द्विरेफपदे ( म० प्र० ४ पृ० ४१) । [ग] नव्यनैयायिकानां