न्यायकोशः /754
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
गौः तत् तस्य च बोध्यम् चित्रा गौः तत्संबन्ध-
श्चित्रगोः स्वामिन्यस्ति इति ( त० प्र० ख० ४ पृ० ४५-४६) ।
एतन्मते वाक्ये लक्षणाया आवश्यकत्वं तु लक्षकशब्दव्याख्याने समव
लोकनीयम् । [छ ] आलंकारिकाश्च शक्यसंबन्धज्ञानं लक्षणा ( काव्य-
प्रदी० ) । [ज ] शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गः । एतन्मते गायां
घोष इत्यादौ गङ्गास्वेनैव लक्ष्यार्थप्रतीतिः । अत एव ततो वैयञ्जनिकी शैत्य-
पावनत्वादिप्रतीतिः (वै० सा० द०) । [झ ] मुख्यार्थबाघतद्योगाभ्या
•
मर्थान्तरप्रतिपादनं लक्षणा । सा च द्विविधा रूढिमूला प्रयोजनमूला
च । तदुक्तं काव्यप्रकाशे मुख्यार्थबाधे तद्योगे रूढितोथ प्रयोजनात् ।
अन्योर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ( सर्व० सं० पृ०
३७३ पात० ) इति । तथा च लक्षणा द्विविधा निरूढलक्षणा स्वारसिक
लक्षणा च इति । प्राचां मते लक्षणा चतुविधा जहत्स्वार्था अजह
•
त्स्वार्था जहदजहत्स्वार्था लक्षितलक्षणा चेति (मु० ४ ) । नव्यनैया
यिकानां मते तु लक्षणा त्रिविधा जहल्लक्षणा अजहलक्षणा जहदजह•
लक्षणा च ( त० दी० ४ ) । यच्चोक्तं ग्रन्थान्तरे शक्येन सह संबन्धात्
इति तस्य गौणी शुद्धा चेति भेदद्वय एव तारपर्थम् ( म०प्र० ख० 8
सादृश्यात् समवायतः । वैपरीत्यात् क्रियायोगालक्षणा पञ्चधा मता ॥
पृ० ४१ ) । शाब्दिकानामालंकारिकाणां च मते लक्षणा द्विधा
शुद्धा च । तत्र गौण्यां सादृश्यात्मकः शक्यसंबन्धः । यथा
इति ( न्या० म० ४ पृ० १० ) ( न्या० बी० ) । तदर्थश्च वाहीको वा
हीकदेशोद्भवः । गौर्बलीवर्दः । वाहीके गवाभेदस्य बाधात् गोपदेन गोसदृशो
•
लक्ष्यते । सादृश्यं च गोगतजाड्यमान्द्यादिकमेव । तथा च जडो मन्द
•
वाहीकः इति शाब्दबोध: ( त० प्र० ख० ४ पृ० ३५-३६ ) ।
•
अत्र भट्टवार्तिकम् अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाण
गौणी
गौर्वाहीक
●
द्विविधा जहल्लक्षणा अजहल्लक्षणा चेति ( न्या० म० ४ पृ० १०,
( न्या० बो० ) । जगदीशमते तु प्रकारान्तरेण जहत्स्वार्था अजहत्स्वार्था