2023-11-22 04:28:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६९८
 
न्यायकोशः ।
 
गृहम् इति लक्षणज्ञाने सति इदमेव देवदत्तगृहम् नान्यत् इत्यवधारण•

ज्ञानं जायते ( प्र०प० पृ० २ ) इति । ३ स्वरूपम् । यथा व्याप्ते -

लेक्षणमाह यत्रेति ( त० दी० २ पृ० २० ) इत्यादौ । यथा वा जीव-

लक्षणमाह (त० दी० ) इत्यादौ (नील० १ पृ० ११) । यथा वा

पटलक्षणं वस्तु घटलक्षणं द्रव्यम् परमाणुलक्षणा नित्यपृथिवी इत्यादौ

च लक्षणशब्दस्यार्थ: स्वरूपम् । ४ प्रतिपाद्यो विषयः । यथा जैमिनि-

दशलक्षणीं प्रणिनाय इत्यादौ । ५ आलोचनम् । यथा विलक्षणमित्याद

लक्षणशब्दस्यार्थः । तदर्थश्च हेतुशून्या स्थितिर्विलक्षणम् ( अमरटी

३।२।२ ) । ६ अन्यदीयधर्मराहित्यम् । यथा विलक्षणं वस्त्विदम्

इत्यादी लक्षणशब्दस्यार्थः । यथा वा बौद्धमते स्वलक्षणं स्वलक्षणम् इति

भावनाविषयो लक्षणपदार्थः । ७ शाब्दिकास्तु शब्दसाधुताप्रतिपाद

प्रमाणम् । यथा व्याकरणादिसूत्रं लक्षणम् इत्याहुः । ८ व्यवहारज्ञास्तु

व्यवहारोपयोगि नाम इत्याहुः । ९ चिह्नम् इति काव्यज्ञा वदन्ति ।
 
S
 

 
<
लक्षणा - >
(वृत्तिः ) [क] न्यायमते स्वशक्यसंबन्धः (मा० प० श्लो० ८३)

( त० दी० ख० ४) (न्या० बो० ४) ( न्या० म० ४ पृ० १०)

( वाक्य ० ) । तदर्थस्तु स्वं लाक्षणिकं पदम् गङ्गापदम् । तस्य शक्यः

प्रवाहः । तत्संबन्धः संयोगः इति ( त० प्र० ४ पृ० ३५) । स

संयोगसमवायादिर्यथायथं ग्राह्यः । स्वशक्यसंबन्धश्च शब्दनिरूपितोर्थ-

निष्ठः शाब्दबोधप्रयोजकः शब्दार्थयोः संबन्धः । मीमांसकादयस्तु

प्रतिवसति इत्यादौ गङ्गापदस्य प्रवाहसमीपे तीरे लक्षणा (मु०

वाच्यार्थसंबद्धार्थबोधकत्वरूपः शब्दनिष्ठः इत्याहुः । यथा गङ्गायां घोषः
 
चं
 
४ )
 

१ ४ ( वाक्य ० ४ ) । गङ्गापदशक्यप्रवाहजलौघस्य तीरे संयोगसंबन्धो

गङ्गापदलक्षणा ( त० कौ० ४ ) । अस्ति हि गङ्गापदशक्यः प्रवाह

विशेष: तत्संबन्धस्तीरे इति ( न्या० म० ख० ४ पृ० १०)। अत्र
 

(भा० प० श्लो० ८३ ) । लक्षणाप्रयोजकं चालंकारिकाद

अन्वयानुपपत्तिर्लक्षणाबीजम् इति प्राञ्च आहुः (मु० ४ ) । तात्पर्यानु-

पपत्तिरेव (तात्पर्यनिर्वाहिका ) सर्वत्र लक्षणाबीजम् इति नव्याः प्राहुः