This page has not been fully proofread.

न्यायकोशः ।
 
• लक्षणेनेतरमेदसाधने अतिव्याप्तौ व्यभिचारः । अव्याप्तौ भागासिद्धिः ।
असंभवे स्वरूपासिद्धिश्चेति (नील० १ पृ० ४ ) । एतद्दूषणत्रयरहितो
धर्म एव असाधारणधर्मः इत्युच्यते ( त० भा० ) ( त० प्र० )
( त० दी० ) । [ग] वेदान्तिनस्तु यो धर्मो लक्ष्ये व्याप्त्या वर्तते न
वर्तते चान्यत्र स धर्मः । यथा गोः सास्नादिमस्वम् । तद्धि गोषु सर्व-
त्रास्ति नास्ति चागोषु इत्याहुः (प्र० प० पृ० १ ) । [घ ] सजातीय-
विजातीयव्यावर्तको लक्ष्यगतः कश्चिलोकप्रसिद्ध
 
:
 
आकारो लक्षणम्
 
3028
 
( जै०
 
० न्या० अ० १ पा० १ अधि० १ ) । इदं लक्षणं द्विविधम्
स्वरूपलक्षणम् तटस्थलक्षणं च इति । तदुक्तम् स्वरूपं तटस्थं द्विधा
लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम् इति । तत्र स्वरूप-
लक्षणं यथा आकाशो बिलम् इति । यथा वेदान्तमते सच्चिदानन्दो ब्रह्म
इति स्वरूपलक्षणम् । यथा मीमांसकमते चोदनालक्षणोर्थो धर्मः इत्यादौ
चोदनावाच्यविधिवाक्यमेव धर्मस्वरूपज्ञापकमस्ति इति । तटस्थलक्षणं तु
काकवत् देवदत्तगृहम् इति । अत्रोदासीनोपि काक इदं देवदत्तगृह मिति
( बोधयति । यथा वा पृथिव्या गन्धो लक्षणम् । स हि तटस्थलक्षणमपि
पृथिवीं परस्माद्भिन्नतयानुमापयति । तथा हि पृथिवी जलादिभ्यो भिद्यते
गन्धवत्त्वात् यन्नैवं तनैवम् यथा जलम् इति । मायावादिमते तु जगज्जन्मा-
दिकारणं ब्रह्म इति तटस्थलक्षणम् । लक्षणेन च पदार्थज्ञानं सुकरं भवति ।
2. तदुक्तम् ऋषयोपि पदार्थानां नान्तं यान्ति पृथक्त्वतः । लक्षणेन तु सिद्धा-
(
 
नामन्तं यान्ति विपश्चितः ॥ इति । २ व्यावर्तकम् । तच्च द्विविधम् विशे-
षणम् उपलक्षणं च। तत्रोपलक्षणं यथा जटाभिस्तापस इत्यादौ तापसादेः
कालान्तरीणजटादिकं लक्षणम् ( ग० व्यु० का० ३ पृ० ९१ ) ।
अयं च इत्थंभूतलक्षणे ( पा० सू० २१३१२१) इति पाणिनि सूत्रघटक-
1. लक्षणशब्दस्यार्थः । विशेषणं तु पताकावद्देवदत्तगृहमित्यादौ पताका ।
तथा हि सजातीयविजातीयव्यावर्तकतया लक्ष्यावधारणं लक्षणस्य प्रयोज-
१ नम्। अस्मिन् ग्रामे देवदत्तगृहम् इति वार्ती श्रुतवतः पुरुषस्य तद्रामस्थेषु
सर्वेषु गृहेष्वपि देवदत्तगृहबुद्धिप्रसक्तौ यत्र पताका वर्तते तदेवदत्त-
८८ न्या० को०