2023-11-22 04:27:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६९६
 
न्यायकोशः ।
 
इत्यवधेयम् (ल० व० ) । व्यवहारः शब्दव्यवहारः शब्दशक्तिग्रहः ।

लक्षणज्ञानस्य प्रयोजनं यथा सास्नादिमान् गौः इति लक्षणज्ञाने सति

1. यं यं सास्नादिमन्तं पिण्डं पश्यति तं तं गोशब्दवाच्यं प्रत्येति ( प्र०

प० पृ० २) इति । अत्रेदं बोध्यम् । सर्वे लक्षणं अभिधेयत्वादि-

वर्जम् व्यतिरेकिहेतुर्भवति । यथा पृथिवीलक्षणं गन्धवत्वम् । तथा च

विवादपदं पृथिवी गन्धवत्त्वात् यन्न पृथिवी तन्न गन्धवत् यथा आपः

इत्यादि ( त० मा० अनु० पृ० १३) । लक्षणस्य केवलव्यतिरेकि

हेतुत्वे प्रयोगः । लक्षणं केवलव्यतिरेकिहेतुः विशेषधर्मत्वात् यत् केवल-

व्यतिरेकिहेतुने भवति तन्न विशेषधर्मो भवति यथा अभिधेयत्वम् । न

चेदं तथा । तस्मान्न तथा इति । अन्यदप्युदाह्वियते । गोः सास्नादि-

मत्त्वं लक्षणमित्युत्त्या गौः पक्षः महिष्याद्यात्मकेतरभेदः साध्यः ।

सास्नादिमत्त्वं हेतुः व्यतिरेकदृष्टान्तः । यथा गौरितरेभ्यो भिन्ना सास्नादि-

मत्त्वाद्यन्नैवं तन्नैवं महिष्यादिवत् इत्यनुमाने गोर्लक्षणं

व्यतिरेकिहेतुरेव भवति । नान्वयिहेतुः । गोरिरस्त्

दृष्टान्ताभावात् इति । अत्रायं विशेषः । लक्षणलक्ष्यतावच्छेदकयोरैक्

सिद्धसाधनं दोषः संपद्यते । यथा अनुमितेर्लक्षणमनुमितित्वम् इत्युक्त

लक्षणेन लक्ष्ये अनुमितौ इतरभेदसाधने सिद्धसाधनम् । पक्षतावच्छेदक

साध्यसामानाधिकरण्यस्यानुमिति विषयस्यानुमितेः पूर्वमेव हेतावव्यभि
 

चरितसाध्यसामानाधिकरण्यात्मकव्याप्तिज्ञाने भातत्वात् ( म० प्र० २
 

पृ० १५ ) । व्यावृत्तेः प्रयोजनत्वे पृथिव्यामितरभेदे साध्ये गन्धवस्वरूपं

लक्षणं हेतुर्भवति । लक्षणस्य लक्षणं तु लक्ष्यतावच्छेदकसमनियतत्वम् ।

यथा गोर्लक्षणस्य सास्त्रादिमत्त्वस्य लक्ष्यतावच्छेद की भूतगोत्वसनियतत्वं

लक्षणं भवति इति विज्ञेयम् ( त० दी० ) ( ल० व० ) । [ ख]

दूषणत्रयरहितो धर्मः ( त० भा० ) ( त० प्र० ) ( त० दी ० ) /

यथा गोर्लक्षणं सास्नादिमत्त्वम् । यथा वा विशुद्धमातापितृजवं

ब्राह्मणस्य लक्षणम् ( त० कौ० पृ० २१) । दूषणत्रयं च अव्याप्तिः

दोषा लक्षणदोषाः इत्युच्यन्ते ( ल० व० ) । एतेषां दूषकताबीजं तु
 

 

 

 
-