This page has not been fully proofread.

न्यायकोशः ।
 
२१
 
-
 
अनित्यत्वम् – [क] प्रतियोगितासंबन्धेन ध्वंसवत्त्वम् ( मू० म० ) ।
ध्वंसप्रतियोगित्वमित्यर्थः ( त० दी० ) । यस्य ध्वंसः संभवति तत्त्व-
मिति फलितम् । इदं लक्षणं च प्रागभावानङ्गीकारपक्षे ध्वंसस्य नित्यत्व-
पक्षेपि च संगच्छत इति विज्ञेयम् । [ ख ] प्रागभावप्रतियोगित्वध्वंसप्र-
तियोगित्वान्यतरवत्त्वम् ( वाक्य ० १ ) ( त० प्र० १ ) । यथा ध्वंस -
प्रागभावयोः घटपटादेश्चानित्यत्वम् ।
 
-
 
अनित्यसमः – ( जाति: ) [ क ] साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्र-
सङ्गादनित्यसमः (गौ० ५ । १ । ३२ ) । अनित्येन घटेन साधर्म्यादनित्यः
शब्द इति ब्रुवतोस्ति घटेनानियेन सर्वभावानां साधर्म्यमिति सर्वस्यानित्य-
त्वमनिष्टं संपद्यते । सोयमनित्यत्वेन प्रत्यवस्थानादनित्यसम इति
( वात्स्या० ५ । १ । ३२ ) । प्रतिकूलतर्कदेशनाभासोयमिति ज्ञेयम् (गौ०
वृ० ५।१।३२ ) । [ ख ] व्याप्तिमपुरस्कृत्य यत्किंचिद्दृष्टान्तसाधर्म्येण
सर्वस्य साध्यवत्त्वापादनम् । यथा – यदि दृष्टान्तघटसाधर्म्यात्कृत कत्वात्तेन
सह तुल्यधर्म तोपपद्यत इत्यतः शब्दे अनित्यत्वं साध्यते तदा सर्वस्यैवा-
नित्यत्वं स्यात् । सत्त्वादिरूपसाधर्म्यसंभवात् ( गौ० वृ० ५/१ । ३२ ) ।
[ग] अनित्यदृष्टान्तसाधर्म्यात्सर्वा नित्यत्वप्रसङ्गोद्भावनम् । यथा यद्यनि-
त्येन घटेन सादृश्यादनित्यः शब्द इत्युच्यते तदा येन केनचिद्धर्मेण सर्व-
स्यैव तत्सदृशत्वात्सर्वस्यानित्यत्वप्रसङ्ग इति ( नील० ४५ ) । [घ ]
साधर्म्यादिविवक्षायां संपक्षत्वप्रसञ्जनम् । साधनं त्वप्रतिवदन्स ह्यनि-
त्यसमोदयः ( ता० र०प० २ श्लो० १२४ ) ।
 
1
 
अनित्यसमास : – ( समासः ) स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण यल्लभ्य-
स्यार्थस्य बोधः सः । यथा राजपुरुषपूर्वकायादिः । अत्र तल्लभ्यार्थस्य
राज्ञः पुरुषः पूर्वं कायस्य इत्यादिवाक्याद्रपि प्रतीतेः ( श० प्र० ४० ) ।
अनिर्वाच्यम् – प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तदनि-
र्वाच्यमाहुर्वेदान्तवादिनः ॥ ( सर्वद० सं० पृ० ४४७ ) ।
अनिष्टप्रसङ्गः – अनभिमतार्थापादनम् । यथा पर्वते धूमेन वह्निसाधने
-
वादिना अप्रयोजकशङ्कायां कृतायां पर्वते यदि वह्निर्न स्यात्तर्हि धूमोपि न