This page has not been fully proofread.

६९२
 
न्यायकोशः ।
 
रूपहानिः—[ क ] निःसामान्यत्वगर्भस्य विशेषलक्षणस्य रूपस्य व्याघातः
विशेषावृत्तित्वम् यत् सा रूपहानिः । सा च विशेषस्य जातिमत्त्वे बाधिका
1 इति जातिबाधषु संगृहीता द्रव्यकिरणावल्यामुदयनेन इति विज्ञेयम्
३ (दि० १ सामान्यनि० पृ० ३४) । विशेषलक्षणं स्वतो व्यावर्तकत्वं चैतद्वयं
...विशेषशब्दव्याख्यानावसरे संपादयिष्यते । अत्रायमाशयः विशेषे जात्य-
●न्तराङ्गीकारे सामान्यशून्यत्वघटितविशेषलक्षणासंभवः इति । [ख] स्वतो
 
व्यावर्तकत्वस्य हानिः । यथा विशेषत्वस्य जातित्वस्वीकारे रूपहानिः ।
· अत्र विशेषस्य विशेषत्वात्मकजातिमत्त्वस्वीकारे स्वतो व्यावर्तकत्वं न
• संभवति इत्याशयः । तथा हि । यदि विशेषाः द्रव्याश्रितवे ( मूर्तवृत्तित्वे)
सति जातिमन्तः स्युः तदा गुणा: कर्माणि वा स्युः । विभुवृत्तित्वे सति
• यदि जातिमन्तः स्युः तदा गुणाः स्युः इति विशेषपदार्थस्वरूपहानिः
(वै० उ० १ । २ । ३ ) । अथ वा यदि विशेषत्वं जातिः स्यात् तदा
जातिमतः स्वतो व्यावृत्तत्वासंभवेन स्वतो व्यावृत्तत्वरूपस्या साधारण धर्मव
व्याघातः स्यात् । अतो विशेषत्वं न जाति: (वै० वि० १ । २/३ ) /
रेचकः – कोष्ठ्यस्य वायोर्बहिर्नि:सारणम् ( सर्व० सं० पू० ३७६ पात ) ।
रेतः - १ पुंसो रक्तादिपरिपाकजन्यो देहस्थो मज्जा हेतुश्चरमधातुः (वाच० ) ।
 
-
 
श्लो० २१ दुष्यन्त० ) इत्यादौ । रेतस उत्पत्तिस्थानं तु मस्तकादि
इति भारतीयभिषजां मतम् । रेतस उत्पत्तिस्थानमण्डमेव इति पाश्चात्य
• भिषजो वदन्ति । वयं तु पुंस्त्वोद्दीपक मेवाण्डम् न तु रेतस उत्पत्त्या
श्रयः इति प्रतीमः । अत्र प्रसङ्गत उदाहियते । पुमान्पुंसोधिके शुक्र
स्त्री भवत्यधिके स्त्रियाः । समेपुमान् पुंस्त्रियौ वा क्षीणेल्पे च विपर्ययः॥
( मनु० अ० ३ श्लो० ) ( याज्ञ० १ ) इति । अपुमानिति पदच्छेदः ।
१२ रसेश्वरदर्शनज्ञास्तु शिववीर्यस्वरूपः पारदरसः इत्याहुः । तदुक्तं रसार्णवे
रोग:-१ धातुवैषम्यजातो व्याधिः । तल्लक्षणादिकं च रोगस्तु दोष
मम देहरसो यस्माद्रसस्तेनायमुच्यते ( सर्व० पृ० २०२ रसे० ) इति ।
दोषसाम्यमरोगता । रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते ॥ इति ।