2023-11-22 04:21:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६९०
 
न्यायकोशः ।
 
!
ग्राह्यत्वं लौकिक विषयताश्रयत्वम् । तेन गुरुत्वादीनां चक्षुषा अलौकिक

ग्रहेपि नातिव्याप्तिः । न वा रूपस्येतरेन्द्रियेणालौकिकग्रहेण्यसंभवः

( वाक्य० १ पृ० ६) इति । जन्यत्वं चेतरनिरूपितमसाधारणं ग्राह्यम् ।

तथा च चक्षुरितरेन्द्रियजन्यग्रहीयलौकिकविषयताशून्यत्वे सति चक्षुर्जन्य-

ग्रहीय लौकिक विषयताशालित्वे च सति विशेषगुणत्ववत् । अत्र संयोगादि-

वारणाय प्रथमं सत्यन्तं दत्तम् । गुरुत्वादिवारणाय द्वितीयं सत्यन्तं

दत्तम् । रूपत्वादिवारणाय गुणत्वं दत्तम् । प्रभाभित्तिसंयोगादि-

वारणाय विशेष इति पदं दत्तम् इति विज्ञेयम् ( वाक्य० १ पृ० ६ ) ।

वस्तुतः [ङ ] त्वगग्राह्यचक्षुर्ग्राह्यगुणविभाजकधर्मवत् । तेन न

परमाणुरूपे अव्याप्तिः इति विज्ञेयम् (वाक्य ० १ पृ० ६ ) । अथ वा

[च ] चक्षुर्ग्रहणवृत्तिगुणत्वावान्तरजातिमत् (बै० उ० ३११११ ) /

[छ] चक्षुमत्रग्राह्यजातिमान् गुणः । अत्र गुणपदं प्रभावारणाय दत्तम् ।

( त० कौ० १ पृ० ४ ) । स च गुणः सप्तविधः शुक्ल: नीलः पीतः रक्तः

हरितः कपिशः चित्रः इति । केचिच्चित्ररूपं नाङ्गीकुर्वन्ति ( त० कौ० १

पृ० ४ ) । सिद्धान्तस्तु नीलपीतादिरूपकदम्बस्य चित्ररूपजनकत्वम

ध्यक्षसिद्धम् ( न्या० ली० पृ० १२) इति चित्ररूपमङ्गीकर्तव्यम् ।

अयं भावः । पटादिप्रत्यक्षान्यथानुपपत्त्या चित्ररूपमवश्यमङ्गीकार्यम् ।

तथा हि द्रव्यविषयकलौकिकचाक्षुषप्रत्यक्षं प्रति रूपं कारणम् इत्यनुभव-

सिद्धः कार्यकारणभावः स्वीकार्यः । तथा च चित्ररूपानङ्गीकारे रूपस्य

दैशिकव्याप्यवृत्तित्वनियमादेकस्मिन्पटे नानारूपानङ्गीकारेण रूपसामान्या

तच्च रूपम् पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् पाकजम्

भावप्रसङ्गात्पट प्रत्यक्षस्यानुपपत्तिः ( त० दी० १ पृ० १२) इति ।

भयविधमपि पृथिव्यां तिष्ठति । तथा च पाकजन्यस्यापाकजन्यस्य

अनित्यं च । अयं भावः । कचित् पाकजम् कचित्तु अपाकजम् एवमु
 

अवयव
 
गतरूपजन्यस्य चोभयविधस्याप्यनित्यत्वम् इति । जले तेजसि च शुद्ध

मेव रूपं तिष्ठति । तच्चापाकजम् नित्यमनित्यं च । नित्यगतं नित्यम् ।

तेजसि । अभास्वरं शुकंजले ( त० मा० ) ( त० सं० ) । रूप-

अनित्यगतम नित्यम् । भाखरामास्वरभेदेन द्विविधं च । शकं भास्वरं