2023-11-22 04:15:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६८६
 
न्यायकोशः ।
 
इत्याहुः । २ पौराणिकादयस्तु पितॄणां शुक्लपक्षरूपः कालः देवानां च

दक्षिणायनरूपः काल इत्याद्दुः । तदुक्तम् मासेन च मनुष्याणां पितॄणां

तदहर्निशम् । कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्तिता ॥ इति ।

देवविषयेप्युक्तम् उत्तरायणे दिनं प्रोक्तं रात्रिः स्यादक्षिणायने ( वाच० )

इति । ३ हरिद्रा इति काव्यज्ञा आहुः ।
 
-
 

 
<
रामायणम्>
दशरथपुत्ररामचरितप्रतिपादकम् आदिकविवाल्मीकिकृतं महा-

काव्यम् । तच्च सप्तकाण्डात्मकम् ब्रह्मलोके कोटिश्लोकात्मकम् मनुष्य-

लोके चतुर्विंशतिसाहस्रं पञ्चशतसर्गयुतम् । सप्तकाण्डानि तु बालकाण्डम्

अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्ध-

काण्डम् उत्तरकाण्डं च इति । तत्प्रतिपाद्यविषयाश्च संक्षिप्तकथाः गरुड-

पुराणे (अ० १४८) पद्मपुराणे चोक्तास्तत्र दृश्याः ।
 

 
<
रिक्थग्राह:>
विभागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः । वारस इति
 

प्र० ( मिताक्षरा अ० २ श्लो० ५१ ) ।
 

 
<
रिक्थम् -- >
अन्यदीयं द्रव्यमन्यस्य ऋयादिव्यतिरेकेण यत्स्वीयं भवति तद्रि-

क्थम् ( मिताक्षरा अ० २ श्लो० ५१ ) ।
 

 
<
रुक्मम्>
कण्ठे धृतः सन्नुरसि लम्बमानः सौवर्ण आभरणविशेषः रुक्म

शब्दार्थः (जै० न्या० अ० ५ पा० २ अधि० १२ ) ।
 
-
 

 
<
रुचिः>
१ [क] प्रीतिजनकता । यथा नारदाय रोचते कलह इत्यादौ

रुच्यर्थ: ( ग० व्यु० का० ४ पृ० ९६ ) । अत्र रुच्यर्थानां प्रीयमाणः

(पा० सू० १ । ४ । ३३ ) इत्यनुशासनेन प्रीतिजनकतारूपरुच्यर्थघटक-

प्रीतिभागिनः संप्रदानसंज्ञा विहिता । तादृशक्रियाश्रयतया कलहादेः

कर्तृता । तथा च आश्रितत्वं चतुर्थ्यर्थः । तस्य प्रीतावन्धयः । तादृश

जनकत्वस्य कलहेन्वयः ( ग० व्यु० का० ४ पृ० ९६) । [ख]

वैयाकरणास्तु विषयतासंबन्धावच्छिन्नप्रीत्यनुकूलस्तत्समानाधिकरणो व्

पारः । यथा हरये रोचते भक्तिरित्यादौ रुचेरर्थः इत्याहुः । अत्र

व्यापारफलभूतप्रीतेः समवायेनाश्रयो हरिः संप्रदानत्वशक्तिमान् । तथा