2023-10-18 07:53:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
विरामाभावः । यथा जातौ जात्यन्तरं तत्रापि जात्यन्तरमित्येवं तत्र तत्र

जात्यन्तरस्वीकारेनवस्था । [ख] अव्यवस्थितपरंपरोपाधीनोनिष्टप्र-

सङ्गः । यथा— यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्कपालसमवेतत्व-

व्याप्यं न स्यात् इति (गौ० वृ० ११ १२ १४०) । २ प्राचां संकेत इति केचित् ।

 
<
अनवस्थितखम्>
लब्धायामपि समाधिभूमौ चित्तस्याप्रतिष्ठानवस्थितत्वम्

( सर्वद० सं० पृ० ३५५ ) ।
 
-
 

 
<
अनवस्थितिः>
अनवस्थावदस्यार्थोनुसंधेयः ।
 

 
<
अनाकाङ्क्षम्>
जनितान्वयबोधत्वेन निराकाङ्क्षम् ( कु० ३ ) । यथा घटो

घटः इति वाक्यमनाकाङ्क्ष भवति । इदं च शाब्दबोधविघटकं भवति ।

अत्र प्रथमघटशब्देन बोधित एवार्थो द्वितीयघटशब्देन बोध्यते । तादृश-

बोधन आकाङ्क्षाविरहेण तद्वाक्यं निराकाङ्क्षमिति ज्ञेयम् ।
 

 
<
अनागतस्त्रम्>
भविष्यत्ववदस्यार्थोनुसंधेयः ।
 
-
 

 
<
अनादित्वम् - >
१ उत्पत्तिशून्यत्वम् ( वाक्य० ) । यथा प्रागभावस्यानादि-

त्वम् । २ सजातीयप्रयोगपूर्वकत्वम् । यथा शब्दस्यानादित्वमिति शाब्दिका

वदन्ति ( चि० ४ ) ।
 

 
<
अनादिषटुम्>
जीव ईशो विशुद्धा चित्तथा जीवेशयोर्मिंदा । अविद्या

तच्चितोर्योगः षडस्माकमनादयः ॥ इति मायावेदान्तिनो मन्यन्ते ।
 

 
<
अनायतिः>
गत्यन्तराभावः । यथा अनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यत

इत्यादौ । अत्र च सिद्धान्ते प्रवृत्तिं प्रतीष्टसाधनत्वज्ञानस्य कारणव-

स्वीकारात्तादृशकारणाभावेन बालकानां स्तनपानप्रवृत्त्यनुपपत्त्या जन्मा

न्तरानुभूतेष्टसाधनत्वस्मरणकल्पने जन्मान्तरानुभूतानामन्येषामपि पदा-

र्थानां स्मरणापत्तिः । तद्वारणाय अनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यत

इत्यवधेयम् ।
 

 
<
अनारभ्याधीत:>
( मन्त्रः ) कंचित्कर्मविशेषमप्रकृत्यैव पठितः ।

 
<
अनित्यः>
उत्पत्तिमान्ध्वंसप्रतियोगी च । यथा - नैयायिकमते शब्दः अनित्यः

( त० प्र० ख० ४ पृ० १२४ ) ।