This page has not been fully proofread.

न्यायकोशः ।
 
विरामाभावः । यथा जातौ जात्यन्तरं तत्रापि जात्यन्तरमित्येवं तत्र तत्र
जात्यन्तरस्वीकारेनवस्था । [ख] अव्यवस्थितपरंपरोपाधीनोनिष्टप्र-
सङ्गः । यथा— यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्कपालसमवेतत्व-
व्याप्यं न स्यात् इति (गौ० वृ० ११ १२ १४०) । २ प्राचां संकेत इति केचित् ।
अनवस्थितखम् – लब्धायामपि समाधिभूमौ चित्तस्याप्रतिष्ठानवस्थितत्वम्
( सर्वद० सं० पृ० ३५५ ) ।
 
-
 
अनवस्थितिः– अनवस्थावदस्यार्थोनुसंधेयः ।
 
अनाकाङ्क्षम् – जनितान्वयबोधत्वेन निराकाङ्क्षम् ( कु० ३ ) । यथा घटो
घटः इति वाक्यमनाकाङ्क्ष भवति । इदं च शाब्दबोधविघटकं भवति ।
अत्र प्रथमघटशब्देन बोधित एवार्थो द्वितीयघटशब्देन बोध्यते । तादृश-
बोधन आकाङ्क्षाविरहेण तद्वाक्यं निराकाङ्क्षमिति ज्ञेयम् ।
 
अनागतस्त्रम् – भविष्यत्ववदस्यार्थोनुसंधेयः ।
 
-
 
अनादित्वम् - १ उत्पत्तिशून्यत्वम् ( वाक्य० ) । यथा प्रागभावस्यानादि-
त्वम् । २ सजातीयप्रयोगपूर्वकत्वम् । यथा शब्दस्यानादित्वमिति शाब्दिका
वदन्ति ( चि० ४ ) ।
 
अनादिषटुम् – जीव ईशो विशुद्धा चित्तथा जीवेशयोर्मिंदा । अविद्या
तच्चितोर्योगः षडस्माकमनादयः ॥ इति मायावेदान्तिनो मन्यन्ते ।
 
अनायतिः– गत्यन्तराभावः । यथा अनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यत
इत्यादौ । अत्र च सिद्धान्ते प्रवृत्तिं प्रतीष्टसाधनत्वज्ञानस्य कारणव-
स्वीकारात्तादृशकारणाभावेन बालकानां स्तनपानप्रवृत्त्यनुपपत्त्या जन्मा
न्तरानुभूतेष्टसाधनत्वस्मरणकल्पने जन्मान्तरानुभूतानामन्येषामपि पदा-
र्थानां स्मरणापत्तिः । तद्वारणाय अनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यत
इत्यवधेयम् ।
 
अनारभ्याधीत: – ( मन्त्रः ) कंचित्कर्मविशेषमप्रकृत्यैव पठितः ।
अनित्यः— उत्पत्तिमान्ध्वंसप्रतियोगी च । यथा - नैयायिकमते शब्दः अनित्यः
( त० प्र० ख० ४ पृ० १२४ ) ।