2023-11-22 04:14:55 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२ महारजनादिवर्णविशेषः इति काव्यज्ञा आहुः । ३ गायकास्तु

निषादादिस्वरयोनिकः स्वरविशेषः । यथा मालवभैरवादी राग इत्याहुः ।

तत्स्वरूपं च यैस्तु चेतांसि रज्यन्ते जगत्रितयवर्तिनाम् । ते रागा इति

कथ्यन्ते मुनिभिर्भरतादिभिः ॥ (वाच० ) इति । तेषां मतभेदेन भेदा

यथा आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागश्च ततः पश्चा-

द्वसन्तस्तदनन्तरम् ॥ हिन्दोलश्चाथ कर्णाट एते रागाः षडेव तु (संगीत-

दामो०) इति । भरतमते तु भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा ।

श्रीरागो मेघरागश्च रागाः षडिति कीर्तिताः ॥ ( वाच० ) इति । अत्र

एकैकरागे रागिण्यः स्त्रियः षट् । रागिण्यो गीत्यङ्गानि स्वरभेदाः । तास्तु

रागपत्यः इत्युच्यन्ते ( संगीतदा० ) । एवं षट्सु रागेषु रागिणीभेदाश्च

षट्त्रिंशत् (३६) । यथा षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया ।

धानसी १ मालसी २ चैव रामकीरी ३ च सिम्बुडा ४ । आशावरी

५ भैरवी ६ च मालवस्य प्रिया इमाः ॥ वेलावली १ पुरवी

२ च कानडा ३ माधवी ४ तथा । कोडा ५ केदारिका ६ चापि

मल्लारदयिता इमाः ॥ गान्धारी १ सुभगा २ चैव गौरी

३ कौमारिका ४ तथा । वेलोयारी ५ च वैरागी ६ श्रीरागस्य

प्रिया इमाः ॥ तुडी १ च पञ्चमी २ चैव ललिता ३ पठमञ्जरी

४ । गुर्जरी ५ च विभाषा ६ च वसन्तस्य प्रिया इमाः ॥ मायूरी

१ दीपिका २ चैव देशकारी ३ च पाहिडी ४ । वराडी ५ सोरहाटी

६ च हिन्दोलस्य प्रिया इमाः ॥ नाटिका १ चाथ भूपाली २ रामकेली

३ गडा ४ तथा । कामोदा ५ चाथ कल्याणी ६ कर्णाटस्य प्रिया
w

इमाः ॥ ( संगीतदा० ) इति । एवम् तत्तद्गानकालभेदाः तत्तत्पुत्रादयश्च

तत्रैव दृश्या: ( वाच० ) ।
 
19-470
 

 
<
रात्रिः>
१ [ क ]
 
निरस्तैतद्द्वीपवर्तिरविरश्मिजालः कालविशेष: ( कि०
 

व० १ ) । [ख] संपूर्णादित्यमण्डलदर्शनयोग्यो यः कालस्तद्भिन्नः

काल: (वै० ) । [ग] अन्ये तु नृणां स्वस्वदेशापेक्षया सूर्यमण्डलस्या-

दर्शनयोग्यः काल इत्याहुः । [घ ] धर्मज्ञास्तु अहर्विपरीता रात्रिः