This page has not been fully proofread.

न्यायकोशः ।
 
-
 
रक्षणम्
– त्राणम् ।
 

 
रक्तः - १ ( गुणः ) रूपविशेषः । यथा रक्तो घट इत्यादौ । अत्र रक्त-
पदस्य शक्तिबोध्योर्थो रक्तरूपमेव । तथापि रक्तघटयोः सामानाधिकरण्या-
नुरोधेनात्र रक्तपदस्य रक्तरूपवति लक्षणा न्यायमते स्वीक्रियते । तेन
रक्तरूपवदभिन्नो घटः इति शाब्दबोधः । शाब्दिकास्तु गुणवचनेभ्यो
मतुपो लुगिष्टः इति वार्तिकेन लुप्तेन मतुपैव विशिष्टार्थो बोध्यते इति
रक्तपदस्यात्र शक्त्यैव बोध्योर्थो गृह्यते । नात्र लक्षणा स्वीकार्या इत्याहुः ।
२ शरीरस्थो रसपाकजन्यो मांसहेतू. रुधिराख्यो धातुविशेषः। तस्वरू-
पमुक्तं भावप्रकाशे यथा यदा रसो यकृद्याति तत्र रञ्जकपित्ततः । रागं
पाकं च संप्राप्य स भवेद्रक्तसंज्ञकः ॥ इति ।
ॐॐः ॥
 
६८१
 
TOUTFI
 
रजः - [क] जगत्कारणे या दुःखात्मता तद्रजः ( सर्व० सं० पृ० ३२६
सां० ) । [ख] जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ( याज्ञ-
वल्क्य० अ० १ श्लो० ३६२ ) ।
 
रजनी - तत्परा रजनी ज्ञेया ( पुरु० पृ० ४६ ) तत्परा सायंकालात्परा ।
रत्नत्रयम् - रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमर्हत्प्रवचन-
संग्रहपरे परमागमसारे प्ररूपितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः
( सर्व० सं० पृ० ६२ आई० ) इति ।
 
रथकारः – वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूदायां वैश्यादुत्पन्ना
करणी । तस्यां करण्यां माहिष्यादुत्पन्नो रथकारः ( जै० न्या० अ० ६
पा० १ अधि० १२) । तथा च याज्ञवल्क्यः माहिष्येण करण्यां तु
रथकारः प्रजायते ( याज्ञ० ११९५ ) इति ।
रथसप्तमी— यस्यां मन्वन्तरस्यादौ रथारूढो दिवाकरः । माघमासस्य सप्तम्यां
सा तस्माद्रथसप्तमी ॥ (पु० चि० पृ० १०४ ) ।
 
रन्ध्रम् - नवमी ( पु० चि० पृ० ३० ) ।
 
-
 
८६ न्या० को०