2023-11-22 04:09:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६८०
 
न्यायकोशः ।
 
w
 
<यौगिकरूढम्>
(नाम शक्तपदम् ) [ क ] यत्रावयवार्थरूढ्यर्थयोः खात-

त्र्येण बोध: तत् (मु० ४ पृ० १८० ) ( त० प्र० ४ पृ० ३०) ।

अत्र यौगिकं च तद्रूढं च इति व्युत्पत्तिरनुसंधेया (नील० ४ पृ० ३१) ।

अत्र शब्दशक्तिप्रकाशकृत आहुः । इदं यौगिकरूढं पदं रूढयौगिक

इत्युच्यते (श० प्र० श्लो० १५ ) इति । एतस्योदाहरणं तु नाम-

शब्दव्याख्याने संपादितम् इति तत्र दृश्यम् । वयमत्राधिकं ब्रूमः ।

योग रूढिरूपशक्तिवद्यौगिकरूढिरूपा शक्तिर्नातिरिक्ता । किंतु योग

एतदुभयात्मिकैव । योगरूढिशक्तिस्तु योगविशिष्टरूढित्वेन रूपेण विशिष्

कार्थबोधकतया अतिरिक्ता इति विशेषः इति । [ख ] यौगिकार्थ-

रूढार्थयोः स्वातन्त्र्येण बोधकं पदम् । ग योगेन रूढ्या च परस्परा-

सहकारेणार्थप्रतिपादकम् । यथा उद्भिदादिपदं यौगिकरूढम् /

उद्भिदं योगेन तरुगुल्मादेः रूढ्या तु यागविशेषस्य वाचकम् ।

( नील० ४ पृ० ३१) (मु० ४) । अत्र प्रमाणम् उद्भिदस्तरु-

गुल्माद्याः ( अमर० का० ३ वर्ग० १ श्लो० ५१) इति । उद्भिदा

यजेत पशुकामः ( श्रुतिः ) इत्यादावुद्भित्पदं तन्नामकयाग विशेषवाचकम् ।

अथ वा उद्भित्पदं यौगिकं खनित्रे रूढं यागविशेषे ( त० प्र० ख० ४

पृ० ३० ) । यथा वा अश्वगन्धादिपदं यौगिकरूढम् । तथा हि ।

अश्वगन्धादिपदात्कदाचिदोषविनिष्ठसमुदाय निरूपितशत्तयौषधिबोधः ।

कदाचित्तु अश्वस्य गन्धोस्याम् इति व्युत्पत्त्या वाजिशालादिबोधोवयव

शक्तया इति (वै० सा० द०) । अथ वा अश्वगन्धादिपदमौषधि-

विशेषबोधे रूढम् । अश्वसंबन्धवत्तया वाजिशालाबोधे यौगिकम् /

यौगिकरूढम् इत्युच्यते । रूढिर्योगापहारिणी इति तु प्रकरणाच

भावे बोध्यम् । यत्र मण्डपपदादिभ्यो मण्डपानकर्त्रादे रूट्यर्थमण्डपाि

गुणवत्वेन बोधस्तत्र प्रथम प्रतीत रूढिविषय मुख्यार्थापरित्यागेन योगा-

ढिपूर्वकलक्षणाया बलवत्वेन लक्षणयैव बोध: ( ल० म० आकाङ्क्षा
 
J
 

दिवि० पृ० १२) ।
 
.
 
इदं
 
D