न्यायकोशः /733
This page has not been fully proofread.
न्यायकोशः ।
६७९
पत्तिः । तथा हि आलोकसंयोगाद्यसत्त्वदशायां अत्र घटः स्यात् तर्छुपल-
भ्येत इत्यापादनासंभवेन योग्यानुपलब्ध्यभावात् न तत्र घटाभाव प्रत्यक्षम्
( नील० पृ० १८) इति । अत्र भट्टा आहुः अभावप्रत्यक्षे चेन्द्रियं न
wha
करणं किंतु योग्यानुपलब्धिरेव ( दि० १ ) इति । अत्रे म्
यस्य सत्त्वं यत्रानुपलब्धिविरोधि तस्याभावस्तत्र गृह्यते (चि० ४ ) इति ।
शिष्टमुदाहरणप्रयोजनादिकं च अनुपलब्धिशब्दव्याख्यानावसरे योग्यता-
शब्दव्याख्यानावसरे च संपादितम् तत्तत्र दृश्यम् ।
प
योनिजम् – ( शरीरम् ) शुक्रशोणितयोः परस्परमेलनजन्यम् ( दि० २१ २
पृ० ७० ) (सि० च० १ पृ० ६ ) । यथा मनुष्यादिशरीरं योनिजम् ।
शिष्टं तु शरीरशब्दे दृश्यम् ।
यौग पद्यम् - १ एककालवृत्तित्वम् (ग० सत्प्र० ) । अनेकेषामेकक्षण-
pah
संबन्धः इत्यर्थः । यथा घटपटयोर्योगपद्यम् । २ एककालोत्पत्तिकत्वम्
( मु० ) । यथा अयोगपद्याज्ज्ञानानां तस्याणुत्व मिहोच्यते (भा०प०
श्लो० ८६ ) इत्यादौ यौगपद्यम् ।
यौगिकम्—(नाम शक्तपदं वा ) [ क ] यत्रावयवार्थ एव बुध्यते तत्पदम्
(मु० ४ पृ० १७९) ( त० प्र० ख० ४ पृ० ३० ) । [ ख ]
अवयवशक्तिमात्रेणार्थप्रतिपादकम् । यथा पाचकादिपदम् (नील० )
(मु० ४ ) । अत्र पचति इति व्युत्पत्या प्रकृतिप्रत्ययादिना पाककर्ता
बोध्यते इति विज्ञेयम् ।[ग] यन्नाम स्वान्तर्निविष्टशब्दानां योगलम्य-
स्यैव यादृशार्थस्यान्वयबोधं प्रति हेतुः तन्नाम तादृशार्थे यौगिकम् ।
तच्च यौगिकं त्रिविधम् समासः तद्धिताक्तम् कृदन्तं चेति । अत्र विशेषो
ज्ञेयः । द्वन्द्वोपि समासः स्वघटकशब्दानामाकाङ्क्षया लभ्यस्य धवख-
दिराद्यर्थस्यान्वयबोधकतया यौगिक एव । ब्राह्मणी श्वश्रूः शूद्रेत्यादौ
ङीबादेः स्त्रीत्ववाचित्वे तादृशं नाम यौगिकमेव । अन्यथा तु स्त्रीत्वादि-
मति तत्तदर्थे रूढमेव । नातो विभागस्य व्याघातः इति ( श० प्र०
श्लो०
१० २९ टी० पृ० ३८) ।
101