2023-11-22 04:08:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६७८
 
न्यायकोशः ।
 
गुरुत्वाभावस्य च योग्यमात्राप्रतियोगिकत्वाच्च इति । ४ जात्यवच्छिन्नप्र-

तियोगिताकत्व जात्यतिरिक्तयोग्यधर्मावच्छिन्न प्रतियोगिताकत्व एतदन्य-
। तरत्

तरत् ( दि० १/३ पृ० १२६ - १२७ ) । अत्र जात्यवच्छिन्न प्रति-

योगिताकत्वेत्युक्त्या स्तम्भे पिशाचान्योन्याभावप्रत्यक्षम् ( स्तम्भः पिशाचो

न इति प्रत्यक्षम् ) उपपद्यते । जात्यतिरिक्तत्यायुक्त्या च घटवदन्योन्या

भावादेः प्रत्यक्षमुपपद्यते इति ज्ञेयम् ( राम० १/३ पृ० १२८ ) ।

। इयं च योग्यता अन्योन्याभाववृत्तिरन्योन्याभावप्रत्यक्षे प्रयोजिका च

अधिकरणयोग्यता इति व्यवह्नियते । तेन स्तम्भेपि पिशाचान्योन्या-

भावपिशाचवदन्योन्याभावयोः प्रत्यक्षत्वाप्रत्यक्षत्वोपपत्तिः । अधिकरण-

योग्यतेत्यस्य योग्याधिकरणवृत्तित्वमित्यर्थः । तेन स्तम्भ इव वाय्वादौ न

पिशाचान्योन्याभावप्रत्यक्षम् इति भावः ( दि० ११३ पृ० १२७) ।

१५ अनुमित्सानन्तरं लिङ्गदर्शनादिक्रमेण यावता कालेनोत्सर्गतः परामर्शो

जायते तावानेव कालः । अनुमित्सोत्पत्त्यधिकरणक्षणमारभ्य क्रमेण

पक्षविषयक लिङ्गज्ञान व्याप्तिस्मरणयोरुत्पत्तौ सत्यामुत्सर्गतो यावता ले

परामर्शोत्पत्तिः अनुमित्सोत्पत्तिक्षणमारभ्य तत्क्षणपर्यन्तं यावन्तः क्षणाः

यो वा तावन्मात्रक्षणावस्थायी स्थूलकालस्तत्समुदाय एव वेत्यर्थः । एवं

च क्षणचतुष्टयं तदधिककालानवस्थायी स्थूलसमयश्च योग्यता इति

पर्यवसितम् (ग० २ पक्ष० पृ० २८) । इयं च योग्यता मिश्रमतानु-

सारिण्यनुमितिप्रयोजिका च
 
इति
 
इति अनुमित्सायोग्यता इति व्यवयित
 

बोध्यम् । अनुमित्सोत्पत्त्यनन्तरमनुमित्सानाशेपि सिद्धौ सत्यां यावत्काल

मध्ये अनुमितिर्जायते तावानेव काल: ( दीधि० २ पक्ष० पृ० १३६) /

योग्यता त्वनुमितौ प्रयोजिका पक्षतात्मकसंशययोग्यता इत्युच्यते ।

६ साधकबाधकमानाभावः ( चि० २ पक्ष० पृ० ३३ ) । इयं

 
<
योग्यानुपलब्धि:- >
(अनुपलब्धि: ) [ क ] प्रतियोगितद्व्याप्येतरप्रति-

[ख अभावप्रत्यक्षसामग्री विशिष्टप्रतियोग्यनुपलब्धिः (त० प्र० १) ।

योग्युपलम्भकयावत्सामग्री विशिष्टप्रतियोग्युपलम्भाभावः (कु० ३ टी० ) ।

अत्र अनुपलब्धौ योग्यत्व विशेषणदानेन अन्धकारे न घटाभावप्रत्यक्षा