2023-11-22 04:07:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६७७
 
उपलम्भरूपः प्रतियोगी यस्य उपलम्भाभावस्य सः तादृशप्रतियोगिकः

उपलम्भाभावरूपः। तस्य तादृशप्रतियोगिकस्य भावः इति । तथा च

उपलम्भाभावात् (घटदर्शनाभावात् ) नास्ति घटः इति प्रत्यक्षं भवति ।

एवं च तादृशघटोपलम्भाभावो भूतले घटो नास्ति इत्याकारके घटाभाव-

प्रत्यक्षे हेतुः इन्द्रियस्य सहकारी भवति इति समुदायार्थ : ( त० दी० )

(नील० १पृ० १८) (मु० १ पृ० १२३ ) ( दि० ) । [ग] प्रति-

योगिसत्त्वापादनापादितोपलम्भप्रतियोगिकत्वम् (नील० १ पृ० १८) ।

यथा यद्यत्र घटोभविष्यत्तदा भूतलमिवाद्रक्ष्यत् दर्शनाभावात् नास्ति

इति ( त० दी० १ पृ० १८) । तथा हि यत्रालोकसंयोगादिकं वर्तते

तत्र यद्यत्र घटः स्यात्तर्छुपलभ्येत इत्यापादयितुं शक्यते । तत्र घटा-

भावादेः प्रत्यक्षं भवति । अन्धकारे तु नापादयितुं शक्यते । तेन घटा-

भावा देरन्धकारे न चाक्षुषप्रत्यक्षम् । स्पार्शनप्रत्यक्षं तु भवत्येव ।

आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षस्यापादयितुं शक्यत्वात् । गुरुत्व-

पिशाचादिकं यदयोग्यम् तदभावस्तु न योग्यः ( प्रत्यक्षविषयः ) । तत्र

गुरुत्वादिप्रत्यक्षस्यापादयितुमशक्यत्वात् । अतः गुरुत्वपिशाचाद्यभावानां

जलपरमाणौ पृथिवीत्वाद्यभावस्य च न प्रत्यक्षम् इति ( मु० १

पृ० १२४-१२६) । अत्र योग्यानुपलब्धौ योग्यता च योग्यप्रति-

योगिप्रकारकयोग्याधिकरणविशेष्यको पलम्भप्रतियोगिकत्वम् इति निर्व-

चनमपि चिन्तामणिकृन्मते संभवति ( राम० १ पृ० १२३) ।

३ योग्यमात्रप्रतियोगिकत्वे सति योग्यधर्ममात्रावच्छिन्नप्रतियोगिता कत्वम् ।

इयं योग्यता च संसर्गाभावनिष्ठा संसर्गाभावप्रत्यक्षे प्रयोजिका च प्रति-

योगियोग्यता इति व्यवद्दियते । अत्र पदप्रयोजनम् । द्रव्यसामान्या-

भाववारणाय मात्र इति पदम् । गुरुत्ववद्धटात्यन्ताभाववारणाय विशेष्य-

दलम् । रूप गुरुत्व एतदन्यतरावच्छिन्नाभाववारणाय विशेष्यदले मात्र

इति पदम् ( दि० १/३ पृ० १२७ ) । योग्यमात्रप्रतियोगिकत्वे सती-

त्युक्तेः वायाबुद्भूतरूपाभावस्य प्रत्यक्षमुपपद्यते । वायौ गुरुत्वाभाव-

प्रत्यक्षापत्तिवारणं च भवति । रूपाभावस्य योग्यमात्र प्रतियोगि कत्वात् ।