This page has not been fully proofread.

६७६
 
न्यायकोशः ।
 
सेकनिरूपित
 
कार्यकारणभावलक्षणसंसर्गस्य जले
 
सत्त्वायोग्यता ( म०
 
प्र० ४ पृ० ५६ ) । [ छ ] बाधनिश्चयाभावो योग्यता इति नव्या
आहुः (नील० ख० ४ पृ० ३२ ) । [ ज ] परे तु असंसर्गग्रहः
प्रतिबन्धकः । तदभावो योग्यता । सा च स्वरूपसती हेतुः न तु ज्ञाता
इत्याहुः ( न्या० म० ४ पृ० २३ ) । तदर्थश्च पयसा सिञ्चतीत्यादौ
पयः सेककरणतावन्न वा इत्यसंसर्गग्रहः शाब्दबोध प्रतिबन्धकः । तदभाव
स्तत्र योग्यता इति ( म० प्र० ४ पृ० ५७ ) । झ ] अन्वयविरोधि
रूपविरहो योग्यता इत्यन्य आहुः । [ञ ] अन्वयप्रयोजकरूपवत्वम्
इति प्राभाकरा आहुः ( दीधि० प्रामा० ) । सेकान्वयप्रयोजकं द्रव-
• द्रव्यत्वं जलेस्तीति तद्योग्यम् । वह्नौ च नास्तीति तदयोग्यम् इति प्राभा-
कराभिप्राय: ( न्या० म० पृ० २९ ) । ट] अपरे तु तद्धर्मावच्छित्रे
तद्धर्मावच्छिन्न रूपवत्वम् इत्याहुः (मा० श० ) ( भा०प० श्लो० ८४) ।
अत्र नीलकण्ठ आह एकपदार्थे अपरपदार्थवत्त्वं योग्यता इति मते संशय-
निश्चयसाधारणतज्ज्ञानत्वा वच्छिन्नशाब्दधीहेतुः । बाधनिश्चयाभावो योग्यता
इति नवीनमते तु स्वरूपसत्येव योग्यता तद्धेतुः इति (नील० ख०४०
३२) । [ठ] केचित्तु तत्सजातीये तत्सजातीयस्य संसर्गनिश्चयः इत्याहुः ।
अस्ति च पयसा सिञ्चतीत्यादौ प्रकृतसेकसजातीयेतर करण कसेके
• सिञ्चतीत्यादौ तु सेकसजातीये कापि सेके वह्निकरण कत्व सजातीयस्य क
प्रकृतपयःकरणकत्वसजातीयस्य पयःकरणकत्वस्य संसर्गनिश्चयः । वहिना
स्यापि वह्निकरणकत्वस्य संसर्गनिश्चयो नास्ति । बाधितत्वात् (मा० श० ) ।
२ [ क ] प्रतियोगितद्व्याप्येतरयावत्तदुपलम्भकसमवहितत्वम् ( मू०
म० १) । न्यायमते योग्यानुपलब्धिरभावप्रत्यक्षे इन्द्रियस्य सहकारिणी ।
न तु भट्टमते इव प्रमाणान्तरम् । तथा च इयं योग्यता प्रतियोग्युपल-
* चिन्तामणिकृन्मतेन च प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जित प्रतियोगिकत्वम् ।
म्भाभावात्मकानुपलब्धिनिष्ठा अनुपलब्धियोग्यता इति व्यवद्दियते । [ख]
तदर्थश्च प्रतियोगिनः घटादेः सत्त्वस्य यत्प्रसञ्जनम् आपादनम् । यद्यत्र
घटः स्यात् इत्याहार्यारोप इत्यर्थः । तेन प्रसञ्जितः आपादितः । तर्छु-
पलभ्येत इति भूतलमिवाद्रक्ष्यदिति वा आपादित इत्यर्थः । एतादृशः