न्यायकोशः /73
This page has been fully proofread once and needs a second look.
1 न्यायकोशः ।
21
( अननुवादः ) तदननुभाषणं नाम निग्रहस्थानमिति । अप्रत्युच्चारयन्कि-
माश्रयं परपक्षप्रतिषेधं ब्रूयात् ( वात्स्या० ५ । २ । १६ ) । [ ख ]
त्रिरभिधानेपि यत्रानुभाषणविरोधी व्यापारस्तत्राननुभाषणं नाम निग्रह-
स्थानम् । तदिदं चतुर्था । एकदेशानुवादात् विपरीतानुवादात् केवल-
दूषणोत्तया स्तम्भेन वेति । सर्वनामपदेनानुवादात्पञ्चममित्याचार्या: (गौ०
वृ० ५/२।१६ ) ।
MARA
<अनपदेशः
हेत्वाभासवदस्यार्थोनुसंधेयः ( त० व० ) ।
-
●
<अनभ्यासदशापन्नज्ञानम्
१ विशेषदर्शनाजन्यं ज्ञानम् । यथा स्थाणुर्वा
पुरुषो वा इति संशयः ( सि० च० ४ ) । अत्रेदं बोध्यम् । अत्रो-
दाहरणद्वयम् । स्थाणुर्वेत्येकं पुरुषो वेति द्वितीयम् । तथा हि आद्यस्य स्थाणु-
त्ववान्वा तदभाववान्वेत्यर्थः । द्वितीयस्यापि पुरुषत्ववान्वा तदभाववान्वेति
चार्थः । स्थाणुत्वव्याप्यवक्रकोटरादिमानयमिति पुरुषत्त्र व्याप्यकरादिमा नय-
मिति वा विशेषदर्शने सति स्थाणुत्वस्य पुरुषत्वस्य वा निश्चय एव भवति
न तु संशय इति । २ प्राथमिकं ज्ञानम् । यथा इदं जलज्ञानं प्रमा सम-
र्थप्रवृत्तिजनकत्वात् इत्यत्र प्राथमिकं जलज्ञानम् ( त० कौ० ४ ) ।
<अनवधारणम्
अनिश्चयात्मकं ज्ञानम् ।
<अनवसरग्रहणम्
( निग्रहस्थानम् ) १ अकाल एवोद्भावनम् । यथा त्यक्ष्य -
सि चेत्प्रतिज्ञाहानिः विशेषयसि चेद्धेत्वन्तरमिति । २ अवसरमतीत्य
कथनम् । यथा उच्यमानग्राह्यस्यापशब्दादेः परिसमाप्तौ । एवमनुक्तग्राह्या-
ज्ञानाद्यननुभाषणावसरेनुद्भाव्यबोधाविष्करणानुभाषणप्रवृत्ते वादिनि तदु-
द्भावनमित्यादिकमूह्यम् ( गौ० वृ०५/२/२२ ) । इदं निग्रहस्थानं च
गौतमोक्तनिग्रहस्थानस्य निरनुयोज्यानुयोगस्य प्रभेद इति वृत्तिकारेणाङ्गी-
कृतमिति विज्ञेयम् ।
<अनवसादः
दैन्यविपर्ययोनवसाद ( सर्वद० पृ० १२४ ) ।
-
अनवस्था -
<अनवस्था>
१ ( तर्क: ) [क] कॢप्तवस्तुस जातीयवस्तुपरंपरा कल्पनस्य