2023-11-22 04:05:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६७५
 
<योगशास्त्रम्>
सांख्यप्रवचनापरनामधेयं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम्

( सर्व० सं० ३३१ पातञ्ज० ) ।

 
<
योगाङ्गानि>
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गा-

नि योगस्य ( सर्व० सं० पृ० ३४७ पात० ) ।

 
<
योगाचारः>
( बौद्धः) क्षणिक विज्ञानवादी बौद्धविशेषः । गुरूक्तभावना-

चतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति

पर्यनुयोगस्य करणास्केषांचिद्योगाचारप्रथा (सर्व० सं० पृ० ३० बौ० ) ।

योगाचारमतं तु बौद्धशब्दव्याख्यानावसरे ( पृ० ६०९) संक्षेपतः

संपादितम् ।
 
DOPUNE
 

 
<
योग्यता>
कार्य विशेषजनने सामर्थ्यम् । तच्च १ [क] एकपदार्थे अपर

पदार्थप्रकृतसंसर्गवत्त्वम् ( न्या० म० ४ पृ० २२ ) । इयं योग्यता

च ज्ञाता सती शाब्दबोधप्रयोजिका शब्दयोग्यता इति व्यवयिते । इयं

योग्यता अयोग्यवाक्यनिरासिका च भवति । अत एव वह्निना सिञ्च-

तीत्यादिवाक्यान्नान्वयबोधः प्रमात्मको भवति । योग्यताविरहात्

( त० कौ० ) ( त० सं० ) । [ ख ] इतरपदार्थसंसर्गे अपरपदार्थ-

निष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम् । [ग] बाधकप्रमाणा-

भावः । [ घ ] बाधकप्रमाविरहः । स चेतरपदार्थसंसर्गे अपरपदार्थ-

निष्ठात्यन्ताभावप्रतियोगित्व प्रमाविशेष्यत्वाभावः ( चि० ४) । निष्कृ-

टार्थस्तु तदीयान्वयितावच्छेदकसंबन्धे तन्निष्ठात्यन्ताभावप्रतियोगित्व-

प्रकारकप्रमाविशेष्यत्वसामान्याभावः इति । तेन वहिना सिञ्चति इत्यादौ

वह्निनिष्ठकरणताया निरूपक स्वरूपान्वयितावच्छेदकसंबन्धे सेकनिष्ठा-

त्यन्ताभाव प्रतियोगित्वप्रकारकप्रमा विशेष्यत्वस्यैव सरखान्नातिव्याप्तिः ( मा०

शब्द० ) । यथा प्रमेयं वाच्यमित्यादौ योग्यता (चि० ४) (तर्का० ४

पृ० १० ) । [ङ ] अबाधितार्थकत्वम् ( ग० अव० ) । [च ]

अर्थाबाधः (त० सं० ४) । यथा जलेन स्थलं सिञ्चतत्यादौ योग्यता

( न्या० म० ४ पृ० २२ ) । अत्र जले सेकसंसर्गस्य कार्यकारण-

भावलक्षणस्य सत्त्वाद्योग्यता ( प्र० प्र० ) ( त० कौ० ) । अथवा