This page has not been fully proofread.

न्यायकोशः ।
 
६७५
 
योगशास्त्रम्—सांख्यप्रवचनापरनामधेयं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम्
( सर्व० सं० ३३१ पातञ्ज० ) ।
योगाङ्गानि—यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गा-
नि योगस्य ( सर्व० सं० पृ० ३४७ पात० ) ।
योगाचारः – ( बौद्धः) क्षणिक विज्ञानवादी बौद्धविशेषः । गुरूक्तभावना-
चतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति
पर्यनुयोगस्य करणास्केषांचिद्योगाचारप्रथा (सर्व० सं० पृ० ३० बौ० ) ।
योगाचारमतं तु बौद्धशब्दव्याख्यानावसरे ( पृ० ६०९) संक्षेपतः
संपादितम् ।
 
DOPUNE
 
योग्यता–कार्य विशेषजनने सामर्थ्यम् । तच्च १ [क] एकपदार्थे अपर
पदार्थप्रकृतसंसर्गवत्त्वम् ( न्या० म० ४ पृ० २२ ) । इयं योग्यता
च ज्ञाता सती शाब्दबोधप्रयोजिका शब्दयोग्यता इति व्यवयिते । इयं
योग्यता अयोग्यवाक्यनिरासिका च भवति । अत एव वह्निना सिञ्च-
तीत्यादिवाक्यान्नान्वयबोधः प्रमात्मको भवति । योग्यताविरहात्
( त० कौ० ) ( त० सं० ) । [ ख ] इतरपदार्थसंसर्गे अपरपदार्थ-
निष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम् । [ग] बाधकप्रमाणा-
भावः । [ घ ] बाधकप्रमाविरहः । स चेतरपदार्थसंसर्गे अपरपदार्थ-
निष्ठात्यन्ताभावप्रतियोगित्व प्रमाविशेष्यत्वाभावः ( चि० ४) । निष्कृ-
टार्थस्तु तदीयान्वयितावच्छेदकसंबन्धे तन्निष्ठात्यन्ताभावप्रतियोगित्व-
प्रकारकप्रमाविशेष्यत्वसामान्याभावः इति । तेन वहिना सिञ्चति इत्यादौ
वह्निनिष्ठकरणताया निरूपक स्वरूपान्वयितावच्छेदकसंबन्धे सेकनिष्ठा-
त्यन्ताभाव प्रतियोगित्वप्रकारकप्रमा विशेष्यत्वस्यैव सरखान्नातिव्याप्तिः ( मा०
शब्द० ) । यथा प्रमेयं वाच्यमित्यादौ योग्यता (चि० ४) (तर्का० ४
पृ० १० ) । [ङ ] अबाधितार्थकत्वम् ( ग० अव० ) । [च ]
अर्थाबाधः (त० सं० ४) । यथा जलेन स्थलं सिञ्चतत्यादौ योग्यता
( न्या० म० ४ पृ० २२ ) । अत्र जले सेकसंसर्गस्य कार्यकारण-
भावलक्षणस्य सत्त्वाद्योग्यता ( प्र० प्र० ) ( त० कौ० ) । अथवा