This page has not been fully proofread.

न्यायकोशः ।
 
विनाकृतस्य रूट्यर्थस्येव रूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं भवति ।
मण्डपे शेत इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजये -
दित्यादौ समुदितार्थस्य गृहादेरयोग्यत्वेनान्वयाबोधात् । योगरूढं तु
पङ्कजादिपदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्या चावयवलभ्यार्थमेवानु-
भावयति न त्वन्यम् ( श० प्र० लो० २५ टी० पृ० ३२) इति ।
योगरूढं द्विविधम् समासात्मकम् तद्धिताक्तं चेति । तत्र समासात्मकं
कृष्णसर्पादि । तद्धिताक्तं तु वासुदेवादिपदम् । कृदन्तस्य पङ्कजादि-
योगरूढस्य सामासिक एवान्तर्भावः इति नाधिक्यम् ( श० प्र०
 
श्लो० २८ टी० पृ० ३७) ।
 
S
 
-(पदशक्तिः ) [क] शब्दस्य वृत्तिविशेषः । यथावृत्त्या
पङ्कजनिकर्तृत्व विशिष्टपद्मस्य बोध: ( हेमचन्द्र ) । यथा पङ्कजब्राह्मणा
• दिपदे योगरूढिः । अत्र व्युत्पत्तिः योगेन सहिता रूढिः इति (नील० ४
पृ० ३१ ) । अत्र विप्रतिपत्तिः । पङ्कजादिपदानां योग एव इत्येके
बदन्ति । रूढिः इत्यपरे वदन्ति । योगरूढिः इति गौतमीयाः आहुः
। ( न्या० सि० दी० पृ० ४२ ) । अयं भावः । पङ्कजपदात् पद्मत्व-
विशिष्ट प्रतीतये पद्मत्वविशिष्टे पङ्कजसमुदायस्य रूढिरावश्यकी । पदा-
नियतोपस्थितेर्वृत्तिसाध्यत्वात् । पङ्कजपदाद्योगेन कुमुदस्यापि बोध
• ख० ४ ५० २९) । अत्रायं विशेषः । यत्र योगार्थान्वितरूढ्यर्थाव
प्रसङ्गाच्च । मन्मते कदाचित्कुमुदबोधस्तु लक्षणयैव इति ( त० प्र०
बोधः तत्र सर्वत्र योगरूढिः । यौगिकार्थबुद्धिरूपसहकारिलाभा-
[ख] वैयाकरणास्तु यत्र शास्त्रकल्पितावयवार्थान्चितविशेष्यभूतार्थ-
शिष्टावं रूढेर्योग रूढित्वम् (न्या० सि० दी० पृ० ४८ ) ।
निरूपितं समुदाये बोधकत्वम् सा योगरूढिः । यथा पङ्कजाि
इत्याहुः । अत्र पङ्कजनिकर्तृ पद्मम् इति बोधात् पद्मस्यानुपपत्तिप्रति
संधानं संबन्धप्रतिसंधानं च विना बोधान्न तत्र लक्षणाया अवसरः
क्वचित् तात्पर्य ग्राहकवशात् केवलरूढ्यर्थस्य केवलयोगार्थस्य च
यथा भूमौ पङ्कजमुत्पन्नं कल्हारकैरवमुखेष्वपि पङ्कजेषु इत्यादौ (
 
day
 
म० आकाङ्क्षादिवि० पृ० १२ ) ।
 
६७४
 
बोधः
PAS