2023-11-22 03:23:47 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६७०
 
न्यायकोशः ।
 
संयोग विभागाभावः । दिगादीनां तु पृथग्गतिमत्त्वाभावात्परस्परेण संयोग-

विभागाभाव इति । त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति । युतेष्वाश्रयेषु

समवायो नास्तीति परस्परेण संयोगः सिद्धः ( प्रशस्त० गु० पृ० १९ ) ।

 
<
युष्मद् —– >
संबोध्यचेतनः । अधिकं तु त्वम्शब्दार्थे दृश्यम् ।
 
-
 
ग्रू

 
<यु
पः - >
शास्त्रीयच्छेदनतक्षणा दिक्रियाश्रयः ( जै० न्या० अ० ७ पा० ३

अधिo ० ११) ।
 

 
<
योग:-
X
 

 
>
१ संबन्धः । २ [ क ] समुदायशब्दस्य अवयवशक्तिः ( त०

दी० ४ ) (नील० ४ पृ० ३१ ) ( सि० च० ४ । ३१ ) । यथा

पाचकादिपदेषु योगः । अत्र च पाचकादिपदात् पचति इति व्युत्पत्त्या

पाककर्ता बुद्ध्यते इति बोध्यम् । अत्र योगबलं समाख्या इति मीमांसका

बदन्ति (वाच० ) । [ ख ] वैयाकरणास्तु शास्त्रकल्पितावयवार्थमात्र

बोधप्रयोजको योगः ( शक्तिः ) । यथा पाचकादौ इत्याहुः ( ल० म०

आकाङ्क्षादिवि० पृ० १२ ) । ३ [क ] चित्तवृत्तिनिरोधः इति योगिन

आहुः ( पात० पा० १ सू० २ ) । [ ख ] क्लेशकर्मविपाकाशय-

परिपन्थिचित्तवृत्तिनिरोधो योगः ( सर्व० सं० पृ० १३२ पात० ) ।

अत्रेदं बोध्यम् । विषयेष्वलंप्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्यो व्यावृत्तं

मनो यदा आत्ममात्रनिष्ठं भवति तदा तस्कर्मानुगुणप्रयत्नाभावात्कर्म मनसि

नोत्पद्यते स्थिरतरं मनो भवति स एव योगः (वै० उ० ५ । २ । १६ )।

अथ वा आत्मस्थे मनसि षडङ्गयोगेन इन्द्रियादिकं परित्यज्य मनो यदा

आत्ममात्रे तिष्ठति तदा मनःकर्मणोनुत्पादः तदा मनो निश्चलं भवति ।

तदवस्थायां शरीरावच्छेदेन दुःखं न जायते । स आत्मना बाह्यव्यावृत्त-

मनसः संयोगो योग उच्यते । षडङ्गानि स्कन्दपुराणे उक्तानि यथा

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि

भवन्ति षट् ॥ (वै० सू० ५/२/१६) (वै० वि० ) इति । यद्वा

इन्द्रियाणि विषयेभ्यः प्रत्याहृत्येन्द्रियेभ्यो मनः प्रत्याहृत्य साक्षात्कर्तव्ये

वस्तुनि मनःप्रणिधानं योगः ( नील० ) इति । स च योगो द्विविधः ।

राजयोगः हठयोगश्च । तत्र राजयोगः पतञ्जलिनोक्तः । हठयोगस्तु