2023-11-22 03:18:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६६९
 
युक्तिहीन विचारे तु धर्महानिः प्रजायते ॥ इति । ३ लिङ्गोदेश: (लिङ्ग-

निश्चयः ) इति व्यवहारशास्त्रज्ञा आहुः ( वीरमि० लेख्य० पृ० २२२ ) ।

व्यवहारे कानिचिलिङ्गानि नारदेनोक्तानि यथा उल्काहस्तोग्निदो ज्ञेयः

शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥ कुद्दाल-

पाणिर्विज्ञेयः सेतुभेत्ता समीपगः । तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्तितः ॥

प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः । असाक्षिप्रत्यया ह्येते पारुष्ये तु

परीक्षणम् ॥ ( वीरमित्रो० लेख्यनि० पृ० २२३ ) इति । ४ नाटकाङ्ग-

विशेषः इत्यालंकारिका आहुः । तदुक्तम् संप्रधारणमर्थानां युक्तिः प्राप्तिः

सुखागमः ( सा० द० परि० ६ श्लो० ३४३ पृ० १०५ ) इति ।

 
<
युगम्>
१ ( अनुवत्सरशब्दे दृश्यम् ) । २ चतुर्थी (पु० चि० पृ० ३०) ।

 
<
युगादिः - ->
द्वे शुक्ले द्वे तथा कृष्णे युगादी कत्रयो विदुः । नवमी कार्तिके

शुक्ला तृतीया माधवे सिता । अमावास्या तपस्ये च नभस्ये च त्रयोदशी ॥

( पु० चि० पृ० ८६) ।
 
-
 

 
<
युग्मम् - >
द्वितीया ( पु० चि० पृ० ३७ ) ।
 
-
 

 
<
युञ्जानः- >
१ [ क ] चिन्तासहकारेण सकलज्ञानवान् योगी ( भा०प०

श्लो
० ६७ ) । [ ख ] चिन्ताविशेषसनाथद्वितीय प्रत्यासत्त्या समय-

विशेषे ज्ञानवान् ( सि० च० १ पृ० २३ ) । अत्र युक्तपदार्थघटक-

प्रथमप्रत्यासत्तिमपेक्ष्य द्वितीय प्रत्त्यासत्तिः इत्यनुसंधेयम् । २ रथसारथिः ।

३ विप्रः इति काव्यज्ञा आहुः ( वाच० ) ।
 
O
 

 
<
युतसिद्धिः>
[ क ] द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम् युताश्रयाश्रयित्वं

वा (वै० उ० ७।२।९ ) ( प्रशस्त० पृ० १७ ) । यथा मेषयोः घट-

भूतलयोर्वा युतसिद्धिः । [ ख] असंबन्धयोर्विद्यमानत्वम् पृथगाश्रया-

श्रितत्वं वा (वै० उ० ७१२ १३ ) । [ग] परस्परसंबन्धशून्ययोर-

वस्थानम् (३० वि० ७।२।१३ ) । युतसिद्धिश्च संयोगं प्रति प्रयोजि-

कास्ति (वै० उ० ७/२/९ - १३ ) ( प्रशस्त० पृ० १७) । अत्रेदं

बोध्यम् । अण्वाकाशयोराश्रयान्तराभावेप्यन्यतरस्य पृथग्गतिमत्त्वात्संयोग-

विभागौ सिद्धौ । तन्तुपटयोरनित्ययोः पृथगाश्रयान्तराभावात्परस्परतः
 
1