This page has not been fully proofread.

न्यायकोशः ।
 
६६७
 

 
३ व्यापारजन्यत्व प्रकारकेच्छा । यथा याचमानः शिवं सुरानित्यादौ
याच्या । अत्र धात्वर्थेच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया
अन्वयः । व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयान्तार्थस्यान्वयः । तथा
च सुरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रयः इत्यन्वयबोधः ( ग०
व्यु० का० २ पृ० ४५ ) । शिष्टं तु प्रार्थनाशब्दव्याख्याने दृश्यम्
( श० प्र० श्लो० ७३ टी० पृ० ११२) ।
 
याचितम् – विवाहायुत्सवेषु वस्त्रालंकारादि याचित्वा नीतम् ( मिताक्षरा
अ० २ श्लो० ६७ )।
 
यातयामः – प्रतिपदंशास्त्रयो भूताः पादश्चैकश्च तिष्ठति । यातयामः स
विज्ञेयो न हि भस्माने हूयते ॥ ( पु० चि० पृ० ३१९)।
याथार्थ्यम् – सत्यत्वम् वास्तविकत्वं वा ।
 
यापनम् – १ नयनशब्दबदस्यार्थोनुसंधेयः । २ कालादेः क्षेपणम् ।
 
-
 
३ निरसनम् ।
 
-
 
याम्यम् - भरणी ( पु० चि० पृ० ३०६ ) ।
 
यावत् – १ मर्यादा । सा च कालरूपा देशरूपा चेति द्विविधा । तत्र
कालरूपा सीमा यथा आरभ्य तस्यां दशमीं तु यावत् प्रपूजयेत्पर्वत -
राजपुत्रीम् इत्यादौ यावदर्थो मर्यादा । देशरूपा सीमा यथा काशीतः
कौशिकीं यावद्याति इत्यादौ यावदर्थो मर्यादा । २ अभिविधिः । यथा
कार्तिकमारभ्य चैत्रं यावच्छीतं भवति इत्यादौ काशीतः पाटलिपुत्रं
यावद्वृष्टो देवः इत्यादौ च यावदर्थोभिविधिः । आशब्दोपि यावत्-
शब्दवदेव व्याख्येयः । किंतु तद्योगे पञ्चमी साधुः ( ग० व्यु०
का० २ ख० २ पृ० ७४ - ७६ ) । अधिकं च मर्यादा अभिविधि
एतच्छब्दव्याख्याने संपादितम् तत्तत्र द्रष्टव्यम् ।
 
यावत्वम् – १ अपेक्षाबुद्धिविशेषविषयत्वम् ( त० प्र० २ ) । यथा
यत्समानाधिकरणा यावन्तोभावाः ( दीधि० २ चतु० ) इत्यादौ
यावत्त्वम् । २ व्यापकत्वम् ( ग० सिद्धा० ) । यथा यावन्तो घटा