न्यायकोशः /720
This page has not been fully proofread.
न्यायकोशः ।
इदम् इत्यारोपज्ञान विषयत्वमुद्देश्यत्वम् इति बोध्यम् । यागत्वं मानसप्रत्यक्ष-
गम्यो जातिविशेषः इत्यन्य आहुः । अपरे तु श्राद्धस्य पित्रपेक्षया याग-
त्वेन ब्राह्मणापेक्षया तु दानत्वेन तत्र सांकर्यान्न यागत्वं जाति-
विशेष इत्याहुः ( दि० गु० धर्मनि० पृ० २३४ ) ( का० व्या०
का० ४ पृ० ५) । [ङ ] हविःप्रक्षेपात्मको व्यापारः । यथा याजका
यजन्तीत्यादौ धात्वर्थः । अत्र च ऋजिमेव स्वातत्र्यम् न तु यज-
मानस्य । एवं च यागपदस्यायं लक्ष्यार्थ एव इति ज्ञेयम् ( ग० व्यु०
का० ३ पृ० ८१ ) ।
-
अ
यागकालः - पर्वणो यश्चतुर्थोश आद्याः प्रतिपदस्त्रयः । यागकाल: स
विज्ञेयः प्रातरुक्तो मनीषिभिः ॥ ( पु० चि० पृ० ३१९) ।
याचनम् – कस्वोद्देश्यकदानेच्छा । यथा पौरवं गां याचते विप्र
• इत्यादौ याच्यात्वर्थः । अत्र प्रधानकर्मगवाद्यन्वितद्वितीयार्थो विषयत्वम् ।
तस्य धात्वर्थतावच्छेदकदाने निरूपकत्वसंबन्धेन अन्वयः । पौरवपदो-
•त्तरद्वितीयायास्तु वृत्तिरेवार्थः । तस्या दानेन्वयः । अत्रेदं विज्ञेयम् ।
सविषयकज्ञानादिरूपविषयोपहितेच्छाबोधक धातुस्थल इच्छाविषयविषय-
त्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः
सन्नन्तकर्मता । पौरवस्य तु तादृशदानाश्रयत्व मेवा प्रधानकर्मत्वम् इति ।
भिक्ष्यर्थोप्येवमेव बोध्यः ( ग० व्यु० का० २ पृ० ४५)
वैयाकरणाः समुत्तिष्ठन्ते । यत्तु स्वोदेश्यकानेच्छाम्
तन्न । पुत्रार्थ कन्यां याचने इत्यनापत्तेः । स्वसंप्रदानकदा नेच्छावत
फलालाभशङ्कया देहि इत्यवदत्यपि तथा प्रयोगापत्तेश्च इति ( ल० म०
सुबर्थ० का० २ पृ० ९२ ) । [ ख ] शाब्दिकास्तु स्वामित्व
निवृत्ति स्वस्वत्वोत्पत्ति एतदुभयानुकूल: दीयताम् इत्यभिलापरूपो दिदा
पयिषाव्यञ्जको व्यापारः । यथा बलिं याचते वसुधामित्यादौ याचेरर्थः
इत्याहुः । २ स्वीकारानुकूलो व्यापारः । यथा अविनीतं विनयं याचते
इत्यादौ याचेरर्थः । स्वीकारश्च इदमवश्यं करिष्यामि इत्यभिलापादि
० का० २ १० ९२ ) ।
जनको ज्ञानविशेषः ( ल० म० सुबथे० का० २
इति