न्यायकोशः /72
This page has not been fully proofread.
न्यायकोशः ।
स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यत्वम्
२ ) । यथा पर्वतो वह्निमान् घूमादित्यादौ वह्नित्वात्मकस्य साध्यताव-
च्छेदकस्य हेतु – ( धूम ) समानाधिकरणाभावप्रतियोगितानवच्छेदकत्व -
मित्यादौ ( ग० च० २ ) ।
१८.
०
अनद्यतनत्वम् – [ क ] प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । यथा
तण्डुलमपचदित्यादौ लङर्थ: (ग० व्यु० ल० ) । [ख] अद्यतनभिन्नः
कालोनद्यतन इति शाब्दिका वदन्ति ( ल० म० ) ।
-
1
अनध्यवसाय: - १ विपर्ययः । यथा इदं किंचित् इति ज्ञानम् । अयं
विशेषादर्शनेन जन्यत इति विज्ञेयम् ( सि० च० ४ ) । २ यस्तु
ज्ञान विशेषः स्यादसाधारणधर्मजः । जिज्ञासाजनकः सोनध्यवसाय इहो-
च्यते ॥ भवति हि नित्यानित्यव्यावृत्तं शब्दत्वं शब्दे उपलभमानस्य शब्द:
किं नित्यः आहोविंदनित्यः इति जिज्ञासा । अयं च वैशेषिकमते अवि-
द्याप्रभेदः ( त० व० २१८ ) । ३ अविद्याविशेषः । अनध्यवसायोपि
प्रत्यक्षानुमानविषये एव संजायते । तत्र प्रत्यक्षविषये तावत् - प्रसिद्धार्थेष्व-
प्रसिद्धार्थेषु वा व्यासङ्गादनर्थित्वाद्वा किमिदम् इत्यालोचनामात्रमनध्यव-
सायः । यथा-वाहीकस्य पनसादिष्वनध्यवसायो भवति । अनुमानविषयेपि
नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वयं प्राणी स्यात्
इत्यनध्यवसायो भवति ( प्रशस्त ० २ पृ० ४८ ) । ४ वेदान्तिनस्तु -
किंसंज्ञकोयं वृक्षः इति संज्ञाविषयकं जिज्ञासा मात्रमित्याहुः ( प्र० प०
पृ० ५ ) । ५ हेतुदोषविशेषः ।
अनध्यवसितः – (हेत्वाभास :) यश्चानुमेये विद्यमानस्तत्समानासमानजातीय-
योरसन्नेव सोन्यतरत्रासिद्धः अनध्यवसायहेतुत्वादनध्यवसितः । यथा - सत्
कार्यमुत्पत्तेः इति ( प्रशस्त ० २ ० २९ ३० ) । तथा च -अन-
ध्यवसितत्वं पक्षमात्रवृत्तित्वम् । यथा-पर्वतो वह्निमान्पर्वतत्वात् इत्यादौ
पर्वतत्वहेतावनध्यवसितत्वम् ।
अननुभाषणम्- (निग्रहस्थानम् ) [क] विज्ञातस्य परिषदा त्रिरभिहित -
स्याप्यप्रत्युच्चारणमननुभाषणम् ( गौ० ५ । २ । १६ ) ( नील ० ) । विज्ञा-