न्यायकोशः /719
This page has not been fully proofread.
न्यायकोशः ।
यमद्वितीया – कार्तिक शुक्लपक्षस्य द्वितीयायां तु नारद । यमो यमुनया
पूर्व भोजितः स्वगृहेचिंतः ॥ अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता
( पु० चि० पृ० ८३ ) ।
यवनम् – पिष्टस्योदकमिश्रणम् (जै० न्या० अ० १० पा० १ अधि० ११) ।
याग:- [क] प्रीत्यवच्छिन्न समन्त्रकद्रव्यत्यागः । यथा पुष्पेण विष्णुं
यजते इत्यत्र यजेरर्थः । अत्र प्रीतौ विष्णोराधेयत्वेन द्रव्ये च पुष्पादेर-
भेदेनान्वयः। तेन विष्णुनिष्ठप्रीतिहेतुर्यो मन्त्रकरणकः पुष्पाभिन्नद्रव्यत्यागः
तद्वान् इत्याकारकस्तत्र बोधः । अथवा स्वत्वध्वंसजनकेच्छापर्यवसन्नस्य
त्यागस्यैकदेशे स्वत्व एव पुष्पादेराधेयत्वेन तत्रान्वयः । तेन द्रव्येण
विष्णुं यजते इत्यादौ द्रव्यस्य द्रव्याभिन्नत्वेन शाब्दान्वयासंभवेपि न
क्षतिः (श० प्र० श्लो० ७२ टी० पृ० १०८) । अथवा विष्णुं यजत
इत्यादौ द्वितीयार्थ उद्देश्यत्त्रम् । तच्च तस्येदम् इत्यारोपज्ञान विषयत्वम् ।
देवतायाः स्वत्वोपगमे तु न दानत्वं यागत्वव्याप्यम् । होमत्वं यागत्व-
व्याप्यम् इति सर्वजनसिद्धम् । देवपूजनमपि याग एव इति ( का०
व्या० का० ४ पृ० ५ ) । [ख ] देवतोद्देशेन हविस्त्यागः ( म०
प्र० ४ पृ० ५३ ) । [ग] देवतोद्देश्यकद्रव्यत्यागात्मकेच्छाविशेषः
( ग० व्यु० का० ३ पृ० ८१ ) । यथा दर्शपूर्णमासाभ्यां यजेत
ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादौ च यज्धात्वर्थः । अत्रेदमधिकं
ज्ञेयम् । दर्शपूर्णमासाङ्गानि प्रयाजादीनि । तंत्र प्रयाजाश्च पञ्च समिधो
यजति तनूनपातं यजति इडो यजति बर्हिर्यजति स्वाहाकारं यजति
इत्येवंरूपाः श्रुत्युक्ताः (काव्या० श्रौ० ३।२।१२।१७ ) । अङ्गं द्विविधम्
आरादुपकारकम् संनिपत्योपकारकं च । तत्राद्यम् प्रयाजः अनुयाजः
सूक्तवाकः शंयुवाकः पत्नीसंयाजः इति । द्वितीयम् अन्यन्वाधानम्
इध्माबर्हिषोः संभरणम् इत्यादि । [ घ ] देवतोद्देश्यक स्वस्वत्वध्वं सफलक-
स्त्यागो यागः इति वाचस्पतिमिश्रा आहुः । अत्र यागत्वं च देवतोद्देश्यक-
स्वस्वत्वध्वंसवद्द्रव्यविशेष्यकेच्छात्वम् इति संप्रदायः । अत्र देवतोद्देश्यकत्वं
च देवतास्वत्ववद्विशेष्यकत्वम् । शब्दमयी देवता इति पक्षे तु तस्या
८४. न्या० को●