न्यायकोशः /718
This page has not been fully proofread.
६६४
न्यायकोशः ।
यदा – १ यस्मिन्काले इत्यर्थः । यथा यदा मनः पुरीतति प्रविशति तदा
सुषुप्तिः इत्यादौ । २ शाब्दिकास्तु यच्छब्देन इत्यर्थ इत्याहुः ।
यदि –१ पक्षान्तरम् । यथा अथ ज्ञानमात्रे त्वङ्मनः संयोगस्य यदि कार-
णत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् (मु० १
पृ० ११५ ) इत्यादौ । २ संभावना । यथा यदि स्यादुपलभ्येत्येवं
यत्र प्रसज्यते ( भा० प० श्लो० ६३ ) इत्यादौ संभावनाद्योतको यदि
शब्दः । ३ गर्छौ । ४ विकल्पः ( मेदिनी० ) । ५ असंदेहे संदेह-
वचनम् (श्रीधरः ) । यथा यद्येषोपरता देवी ( भाग० १/३/३४)
इत्यादौ यदिशब्दस्यार्थः ।
स्वैरता
यदृच्छा—१ स्वातन्त्र्यम् । २ स्वैरता । यथा यदृच्छालाभसंतुष्ट: ( गीता ०
४।२२ ) इत्यादौ । अत्रार्थे प्रमाणम् स्वेच्छा यदृच्छा स्वच्छन्दः ।
चेति ते समाः ( केशवः ) इति । ३ भगवदिच्छा । यथा यदृच्छया
चोपपन्नं स्वर्गद्वारमपावृतम् ( गीता ० २।३२ ) इत्यादौ इति वेदा-
न्तिन आहुः ।
यदृच्छाशब्दः - जातिगुणक्रियाद्यवाचकः संज्ञाशब्दः । यथा डित्थ इत्यादि-
शब्दः । तदुक्तं काव्यप्रकाशे डित्यादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृत
स्वरूपं वा यदृच्छया डित्यादिष्वर्थेषूपाधित्वेन निवेश्यते इति संज्ञारूपो
यदृच्छात्मकः इति । गौः शुक्कुश्चलो डिस्थ इत्यादौ चतुष्टयी शब्दानां
प्रवृत्तिः इति महाभाष्यकाराः ( काव्य० प्र० उ० २ पृ० १२ ) ।
अत्रोदाहरति असंपादयतः कंचिदर्थे जातिक्रियागुणैः । यदृच्छाशब्दव-
पुंसः संज्ञायै जन्म केवलम् ॥ इति । जात्यादिप्रवृत्तिनिमित्तशून्य
इच्छाप्रकल्पितः इत्यर्थ: ( माघ० टी० स० २ श्लो० ४७ ) ।
यद्वा – १ बुद्धौ संक्षिप्तार्थविषयीकरणम् । २ पक्षान्तरम् । पूर्वकल्प-
शैथिल्यप्रयुक्तारुच्या कल्पान्तरबोधनम् इति यावत् । यथा यद्वाभ्युदय
योग्यता ( भर्तृहरिः ) इत्यादौ ।
( यमः— अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः इति ( सर्व० सं० पृ०
१३८ पात० ) ।
◄
-