न्यायकोशः /717
This page has been fully proofread once and needs a second look.
यथा चैत्रः समागतो यस्तत्रावलोकितः इत्यादौ । अत्र चैत्रादिपदेनाप्यु-
पस्थितोर्थो यच्छब्देन बोध्यते । यथा वा साधु चन्द्रमसि पुष्करैः कृतं
मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहस-
मनुष्ठितं पुनः ॥ इत्यादौ । अत्र तत्पदासत्त्वेपि न दोषः । पूर्वप्रक्रान्त-
स्यैव कृतशब्दोपस्थापितव्यापारस्याभेदेन मीलनान्वयितया यच्छब्देन
बोधनात् । एवम् यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि
दोहदक्षै । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥
( कुमार० स० १ श्लो० २) इत्यादावपि (ग० शक्ति० पृ० ११४ ) ।
२ यस्मात् इत्यर्थः । ३ शाब्दिकास्तु कृत्तद्वितसंज्ञकः प्रत्ययविशेषः ।
यथा देयम् दिश्यम् इत्यादौ इत्याहुः । ४ गर्दा । ५ अवधृतिश्च इति
काव्यज्ञा आहुः ( मेदिनी ० ) ।
1
-
<यत्तः
१ प्रयत्नशब्दवदस्यार्थोनुसंधेयः । २ आयासः इति काव्यज्ञा आहुः ।
३ उद्योगः इति व्यवहारज्ञा वदन्ति ।
यथा –
<यथा>
१ येन प्रकारेण इत्यर्थः । २ सादृश्यम् । ३ योग्यता । ४ आनु-
रूप्यम् । ५ पदार्थानतिवृत्तिः ( सि० कौ० ) ।
<यथार्थबुद्धिः
तद्वति तत्प्रकारकं ज्ञानम् । यथा घटे अयं घटः इति ज्ञानम्।
इदं च लक्षणं स्मृत्यनुभवोभयसाधारणमपि भवति इति विज्ञेयम् ।
अत्र यायायै च फलवत्प्रवृत्तिजननयोग्यत्वम् ( त० कौ० १ पृ० ७ ) ।
तद्वति तदवगाहित्वं वा । सर्वोशे याथार्थ्य तु स्वव्यधिकरणप्रकारावच्छिन्ना
या या विषयता तत्तदनिरूपकत्वम् ( ग० २ हेत्वा० सामा० ) ।
<यथार्थवक्ता
(आप्तः ) प्रकृतवाक्यार्थविषयकयथार्थशाब्दबोधविषयकता-
त्पर्यवान् (वाक्य० ४ पृ० १९ ) । यथा आप्तवाक्यं प्रमाणशब्दः
इत्यादौ सत्यवतीसुतव्यासो गौतमकणादौ च यथार्थवक्तारः । शाब्दबोधे
याथायै च तद्वति तत्प्रकारकनिश्चयत्वमेवेति ज्ञेयम् ।
<यथार्थानुभवः
प्रमाशब्दवदस्यार्थोनुसंधेयः (कु० ४/१ ) (चि० )
( त० सं० ) ।