2023-11-22 03:10:03 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६६२
 
न्यायकोशः ।
 
इति । यज्ञेन संस्कृतमुपवीतम् इति वा ( वाच० ) । तत्स्वरूपमुक्तं यथा

ऊर्ध्वं तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं

विदुर्बुधाः ॥ (कालिकापु० अ० ४ ) इति । उपवीतमाह गोभिलः

यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्जुमेव इति । मनुरपि

कार्पासमुपवीतं स्याद्विग्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्या-

विकसौत्रिकम् ॥ ( मनु० अ० २ श्लोक० ४४ ) इति । नवतन्तुत्वं

व्यक्तमाह देवल: यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तबः । एकेन

ग्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोथ वा ॥ (मनु० टी० कुल्लू० २।४४) इति ।

यज्ञोपवीतधारणार्थं मन्त्रस्तु यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहज

पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
 

( बौधायन: ) इति ।

 
<
यज्ञायज्ञीयम्>
यज्ञायज्ञ इत्यनेन शब्देन
 
युक्तायामृच्युत्पन्नं साम यज्ञा-

यज्ञीयम् (जै० न्या० अ० ९ पा० १ अधि० ९८ ) ।
'

 
<
यज्ञोपवीतम्>
यज्ञसूत्रशब्दवदस्यार्थोनुसंधेयः ।
-
 
यत् -

 
<यत्>
१ बुद्धिविशेषविषयः । अत्रार्थे यच्छन्दश्च तच्छब्दार्थनित्यापेक्षी ।

उत्तरवाक्यस्थस्तु न तदपेक्षी इति सामान्यतो विवेकः ( काव्यप्र० उ०७) ।

अत्र विशेषः यत्तच्छब्दार्थयोरन्वये च न समानविभक्तेस्तन्त्रता इत्याकरे

द्रष्टव्यः । बुद्धिविशेषविषयश्च क्वचित् तत्पदप्रतिपाद्यतया वक्तबुद्धिविषय-

तावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः । यथा यो यो धूमवान् स वह्निमान्

इत्यादौ यच्छब्दार्थः । अत्र तत्पदार्थस्तु स्वप्रयोजकबुद्धिविषयतावच्छेदक-

त्वोपलक्षितधर्मावच्छिन्नः ( ग० श० टी० पृ० ११३ ) । वस्तुतस्तु

स्वपूर्वपदप्रतिपाद्यतया बुद्धिविषयतावच्छेदकधर्मावच्छिन्ने यत्पदस्य शक्तिः

कल्प्यते । अतो न यत्पदशक्ति ग्रहस्तत्पदशक्तिग्रहाधीनः इत्यन्योन्याश्रयः ।

इयं च व्युत्पत्तिः प्रक्रम्य माणपरामर्शकयच्छन्दस्य द्रष्टव्या (ग० शक्ति०

टी० पृ० ११३ ) । यच्छन्दस्य खोत्तरप्रयोक्तपदोपस्थापितवाचीत्यर्थः

इत्यपि तत्रैवोक्तम् । शाब्दिकास्तु तच्छन्दप्रतिपाद्यतया वक्तृबुद्धि

विषय उद्देश्यो यत्पदार्थ इत्याहुः । कचित् स्वप्रयोजकबुद्धिविषयताव-