This page has not been fully proofread.

६६२
 
न्यायकोशः ।
 
इति । यज्ञेन संस्कृतमुपवीतम् इति वा ( वाच० ) । तत्स्वरूपमुक्तं यथा
ऊर्ध्वं तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं
विदुर्बुधाः ॥ (कालिकापु० अ० ४ ) इति । उपवीतमाह गोभिलः
यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्जुमेव इति । मनुरपि
कार्पासमुपवीतं स्याद्विग्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्या-
विकसौत्रिकम् ॥ ( मनु० अ० २ श्लोक० ४४ ) इति । नवतन्तुत्वं
व्यक्तमाह देवल: यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तबः । एकेन
ग्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोथ वा ॥ (मनु० टी० कुल्लू० २।४४) इति ।
यज्ञोपवीतधारणार्थं मन्त्रस्तु यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहज
पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
 
( बौधायन: ) इति ।
यज्ञायज्ञीयम् – यज्ञायज्ञ इत्यनेन शब्देन
 
युक्तायामृच्युत्पन्नं साम यज्ञा-
यज्ञीयम् (जै० न्या० अ० ९ पा० १ अधि० ९८ ) ।
' यज्ञोपवीतम् – यज्ञसूत्रशब्दवदस्यार्थोनुसंधेयः ।
-
 
यत् - १ बुद्धिविशेषविषयः । अत्रार्थे यच्छन्दश्च तच्छब्दार्थनित्यापेक्षी ।
• उत्तरवाक्यस्थस्तु न तदपेक्षी इति सामान्यतो विवेकः ( काव्यप्र० उ०७) ।
अत्र विशेषः यत्तच्छब्दार्थयोरन्वये च न समानविभक्तेस्तन्त्रता इत्याकरे
द्रष्टव्यः । बुद्धिविशेषविषयश्च क्वचित् तत्पदप्रतिपाद्यतया वक्तबुद्धिविषय-
• तावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः । यथा यो यो धूमवान् स वह्निमान्
इत्यादौ यच्छब्दार्थः । अत्र तत्पदार्थस्तु स्वप्रयोजकबुद्धिविषयतावच्छेदक-
त्वोपलक्षितधर्मावच्छिन्नः ( ग० श० टी० पृ० ११३ ) । वस्तुतस्तु
स्वपूर्वपदप्रतिपाद्यतया बुद्धिविषयतावच्छेदकधर्मावच्छिन्ने यत्पदस्य शक्तिः
कल्प्यते । अतो न यत्पदशक्ति ग्रहस्तत्पदशक्तिग्रहाधीनः इत्यन्योन्याश्रयः ।
इयं च व्युत्पत्तिः प्रक्रम्य माणपरामर्शकयच्छन्दस्य द्रष्टव्या (ग० शक्ति०
टी० पृ० ११३ ) । यच्छन्दस्य खोत्तरप्रयोक्तपदोपस्थापितवाचीत्यर्थः
इत्यपि तत्रैवोक्तम् । शाब्दिकास्तु तच्छन्दप्रतिपाद्यतया वक्तृबुद्धि
विषय उद्देश्यो यत्पदार्थ इत्याहुः । कचित् स्वप्रयोजकबुद्धिविषयताव-